________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा.रा. भू ...
वनवासविषयाभूदिति रामे महान्तं भारमारोपयन्ति-या हीत्यादिना ॥२४॥ब्राह्मणानां धनभूतं वेदं परित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृत्वा कथटी .अ.का. मस्माभिः सह गम्यत इत्याकाझायामाह-हृदयेष्विति। नः परं धनम् उत्कृष्टधनभूताये वेदास्ते हृदयेष्वेव तिष्ठन्ति, अनुच्चारणे तेषां न कापि हानिरिति
स. ४५ हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् । वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥२५॥ न पुननिश्चयः कार्यस्त्वद्गतौ सुकृता मतिः। त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ॥२६॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः । शिरोभिर्निभृताचार महीपतनपांसुलैः ॥२७॥ भावः । चारित्रेण पातिव्रत्येन रक्षिता दाराश्च गृहेष्वेव तिष्ठन्ति । चारित्राणामेव तद्रक्षकत्वान्नास्मक्ष्यास्त इतिभावः ॥ २५ ॥ अद्य मत्प्रार्थनया निवर्तध्वमित्यत्राह-नति । त्वद्गतौ त्वनिवर्तनरूपगतौ । मतिः सुकृता सुष्टु कृता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि । धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापेक्षे सति । अस्माभिः धर्ममपेक्षितुं पालयितुं किंनिमित्तं स्यात्, त्वयि वन गतेऽस्माभिर्धर्म एव त्यक्तव्य इति । भावः। यदा त्वयि धर्मपरायणे त्वयितु धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति किंभूतं धर्ममपेक्षितुं स्यात् न किमपीत्यर्थः॥२६॥ ज्ञान वयस्तपोवृद्धा अपि द्विजा विश्लेषासहिष्णुतया प्रणामेनापि निवर्तयितुमुद्युनते-याचित इति। हे निभृताचार निश्चलधर्मानुष्ठान ! हंसशुक्लशिरोरुहैः पलितकेशैः। महीपतनपांसुलैः कृतसाष्टाङ्गप्रणामैः। नः अस्माकम् शिरोभियांचितो निवर्तस्व । वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्या ॥२७॥ सारिणी तदभ्यासानुसरणशीला । त्वत्कृते त्वन्निमित्तम् । वनवासानुसारिणीकृता वेदमन्त्राभ्यासादिकं परित्यज्य बनवासोन्मुखीकृतेत्यर्थः ॥ २४ ॥ नस्त्वया सह वनगमने न काप्यनुपपत्तिरित्याहुः-हृदयेष्विति । चारित्रं पातिव्रत्यम् ॥ २५ ॥ न पुनरिति । त्वगतो त्वत्रिवर्तनरूपगती । मतिः सुकृता सुष्टु निश्चिता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि धर्मपरायणे त्वयि धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति । इतोऽधिकम् किम् किम्भूनम् । धर्ममुपेक्षितं स्यात् न किमपीत्यर्थः । इतः परं ब्राह्मणप्रार्थनाया अप्यधिकं के धर्म साधयिष्यसीति भावः ॥ २६॥ तथापि गच्छन्तं प्रत्याहुः-याचित इति। सशुक्क शिरोरुहे पलितकेशैः । शिरोभिः महीपत्तनपांसुलैः साष्टाङ्गप्रणामेन महीपतनपांसुलैः रजोल्याप्तैर्दहश्च याचितो निवर्तस्व । निभृताचार निश्चलधर्मानुष्ठान ! ॥२७॥
॥१५॥
For Private And Personal Use Only