________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यर्थः ॥ १८ ॥ रथादवतीर्थ किमर्थ पाद्गमनं कृतवानित्याशङ्कयाह-द्विजातीनिति । रथेन द्विजातीन् परिमोकुं न शशाक रथेनोपलक्षितः सन् साव रोधं दशरथमिवा अल्यादिना द्विजातीन निवर्त्तयितुं न शशाकेत्यर्थः । घृणाचक्षुः दयार्द्रचक्षुरित्यर्थः ॥ १९ ॥ गच्छन्तमिति । गच्छन्तमेव बहुशो निवृत्ति | हेतु प्रदर्शनेपि पितृवचनचिकीर्षया गच्छन्तमेवेत्यर्थः ॥ २० ॥ दुःखप्रलापादिनाप्यनिवृत्तं रामं सह वनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्यु द्विजातस्तु पदातींस्तान रामश्चारित्रवत्सलः । न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥ गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः। ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनु गच्छति । द्विजस्कन्धाधिरूढास्त्वामग्रयोप्यनुयान्त्यमी ॥ २१ ॥ वाजपेय समुत्थानि छत्राण्येतानि पश्य नः । पृष्ठतो ऽनुप्रयातानि मेघानिव जलात्यये ॥ २२॥ अनवातातपत्रस्य रश्मिसन्तापितस्य ते । एभिश्छार्यां करिष्यामः स्वैश्छत्रे र्वाजपेयिकैः ॥२३॥ या हि नः सततं बुद्धिवेदमन्त्रानुसारिणी । त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥२४॥ अते-त्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूहः “ब्राह्मणमाणववाडवाद्यत्" इति यत्प्रत्ययः । ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः तम् । अग्रयः अरण्या रोपिताः, केवलानां द्विजस्कन्धाधिरूढत्वासम्भवात् ॥ २१ ॥ वाजपेयेति । वाजपेयसमुत्थानि वाजपेयानुष्ठानसम्भृतानि । जलात्यये शरदि ॥२२॥ अनवाप्त्तेति । वाजपेयिकेः वाजपेयप्राप्तैः । " यावज्जीवं न कञ्चन प्रत्यवरोत् बृहस्पतिसमेन वा प्रत्यवरोहणीयेन यजेत श्वेतच्छत्री भवतीति विज्ञायते" इतिवाजपेययाजिनां श्वेतच्छत्र धारणविधानादिति भावः॥२३॥ अस्माकं बुद्धिरेतावन्तं कालं निश्चिन्ततया मन्त्रविषयाभूत् । इदानीं त्वत्कृत
पर्यन्तं सन्निकृष्टपदन्यासो भूत्वा वनपरायण एवं शनैर्जगाम, नतु निवृत्तो नापि स्थित इत्यर्थः ॥ १८ ॥ कुतो हेतोरित्यत आह-द्विजातीनिति । रथेन परिमोकुं न शशाक रथेनोपलक्षितः सन् द्विजातीनिवर्तयितुं न शशाक । ब्राह्मणेष्वतिविश्वासात् रथारूटस्सन ब्राह्मणानिवर्तयितुं नोचितमित्यमन्यतेत्यर्थः ॥ १९ ॥ गच्छन्त मेव प्रार्थनानन्तरमपि गच्छन्तमित्यर्थः ॥ २० ॥ दुःखप्रदर्शनेन प्रलापादिनाप्यनिवृतं रामं सहवनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्युञ्जते ब्राह्मण्यमिति । ब्राह्मण्यं ब्राह्मणसम्बन्धि सकलमन्त्र तन्त्रज्ञानयोगानुष्ठानरूपमस्मदीयं कर्न, ब्राह्मणसमूहो वा । द्विजस्कन्धेति । पात्रारणिभरणद्वारेणेति शेषः ॥ २१ ॥ वाजपेयेति मेघानिव जलात्यय इति शरदि मेघवन्पाण्डराणीत्यर्थः ॥ २२ ॥ अनवामेति । वाजपेयिकैः बाजपेगयागमातानि वाजपेयिकानि तैः ॥ २३ ॥ या हीति । वेदमन्त्रानु
For Private And Personal Use Only