________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भू. ॥१५४॥
टी.अ. ,
अस्माभिश्च कर्त्तव्य इति राममेव पुनःपुनः पतिमकामयन्तेत्यर्थः ।। ११॥बाष्पणति । सौमित्रिणा सहेत्यनेन रामस्येव लक्ष्मणस्यापि गुणपोष्कल्य मस्तीति द्योत्यते। गुणैरेव गुणैः पाशैरिति लिष्टरूपकम् ॥१२॥ त इति । त्रिविधमिति कियाविशेषणम् । ओजसा तपोबलेन । वयसा प्रकम्पं चञ्चलं
बाप्पेण पिहितं दीनं रामः सौमित्रिणा सह । चकर्षेव गुणैर्बद्धा जनं पुरनिवासिनम् ॥ १२॥ ते द्विजास्त्रिविधं वृद्धा ज्ञानेम वयसौजसा। वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ १३ ॥ वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमाः । निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥ कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मान्निवर्तध्वं याचना प्रतिवेदिताः॥ १५॥धर्मतः स विशुद्धात्मा वीरः शुभदृढवतः । उपवाह्यस्तु वो भर्ता नापवाह्यः पुरादनम् ॥ १६॥ एवमातंप्रलापास्तान वृद्धान् प्रलपतो द्विजान् । अवेक्ष्य सहसा रामो रथादवततार
ह॥ १७॥ पद्यामेव जगामाथससीतः सहलक्ष्मणः। सन्निकृष्टपदन्यासो रामो वनपरायणः ॥ १८॥ शिरो येषां ते तथा ॥ १३॥१४॥ कर्णवन्तीति । याचनां प्रतिवेदिताः प्रार्थनां ज्ञापिताः । अस्माभिरितिशेषः ॥१५॥ धर्म इति । उपवाह्यः पुरसमीपे वाह्यः ॥ १६ ॥ एवमिति । आर्तप्रलापान प्रलपतः आर्तवाक्यानि प्रयुञानानित्यर्थः ॥ १७ ॥ पझ्यामिति । सन्निकृष्टपदन्यासः पद्भ्यां जगामति ब्राह्मण वाक्यश्रवणानन्तरं स्थगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने बतभङ्गो भवतीति धिया स्थावतीर्य तदागमनपर्यन्तं मन्दमन्दं जगामे बाप्पेण पिहितं पिहितलोचनम् । गुणैः रज्जुभिरेव स्वगुणैर्बद्ध्वा ॥ १२ ॥ त इति । ओजसा तपोबलेन, एवं विविध यथा तथा वृद्धाः, तेषां मध्ये वयःप्रकम्पशिरसः अतिवृद्धत्वादेव आरादनुधावनाशनया दूरादिदं वक्ष्यमागमूचुः ॥ १३ ॥ रामस्य परमकरुणामुत्पादयितुं तुरङ्गान प्रत्याहुः-वहन्त इति । वहन्तः रथेन प्रापयन्तः। हिता भवत, भर्तारं वनं न नयतेति यावत । ब्राह्मणयात्रामतिक्रम्य युष्मद्गमनं भर्तुरहितमिति भावः ॥ १४ ॥ एवं प्रार्थितानां तेषां वेगगमनदुखादाहुः कर्ण वन्तीति । विशेषेण यूयं कर्णवन्त इत्यनुकर्षः । तस्माद्भवद्भिर्वनं न गन्तव्यम्, अपितु याचनामस्मदीयाँ प्रतिवेदिताः ज्ञातवन्तः निवर्तध्वम् ॥ १५ ॥ धर्मत इति । धर्मात उपवाह्यः पुरसमीपं प्रापणीयः । वः युप्माभिः, नतु पुरादनम् अपवाह्यः अपनीय प्रापणीयः ॥ १६ ॥ एवमिति । प्रलपतः आर्तवाक्यानि प्रयुञानान् ॥१७॥ पद्भचामिति । पद्भया जगाम, ब्राह्मणवाक्यश्रवणानन्तरं रथगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतमलो भवतीति च भयाद्रथादवतीर्य तदागमन
१५४४
For Private And Personal Use Only