________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. 1|अभिवादयमानमिति । मेघलेखा मेघपतिः ॥२७॥२८॥ अभिवाद्येति । अभिवाद्यनमस्यन्तम् अभिवादनपूर्वकं प्रणमन्तम् ॥ २९ ॥ टी.अ.को.
आश्वासयन्तीति । वाक्योपचारे वाक्यरुपचारविषये ॥३०॥३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्यास काण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ एवं सुमित्रया कौसल्याश्वासनपर्यन्तं कथासङ्घट्टनं परिसमाप्य सम्प्रति रामगमनवृत्तान्त |
अभिवादयमानंतं दृष्ट्वा ससुहृदं सुतम्। मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ २७ ॥ पुनस्ते वरदः क्षिप्र मयोध्यां पुनरागतः। पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥२८॥ अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम् । मुदाः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥२९॥ आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशला ऽनवद्या । रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥३०॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुनरदेवपत्न्याः । सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये अदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥३॥ निवर्तितेऽपि च बलात् सुहृद्भर्गे च राजनि । नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥२॥ अयोध्यानिलयानां हि पुरुषाणां महा यशाः । बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ ३॥ प्रस्तौति-अनुरक्ता इत्यादि ॥ १ ॥ निवर्तित इति । सुहृद्ध राजसुहृद्भूतावरोधवगें । राजनि च सचिवसहित राजनिच। ते पौरजनाः ॥२॥३॥ अभिवादयमानमिति । मेघलेखा मेघपतिः ॥ २७ ॥ २८ ॥ अभिवाद्यनमस्यन्तं प्रवरोञ्चारणपूर्वक नमस्पन्तम् ॥ २९॥ आश्वासयन्तीति । वाक्योपचारे ॥१५३॥ वाक्यरूपोपचारे । कुशला ॥ ३०॥३१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥४४॥१॥ निवर्तित इति । ते पौराः ॥ २ ॥३॥
For Private And Personal Use Only