SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie दुःखजमिति । अस्य श्लोकस्य पृथिव्या सहेतिपूर्वश्लोकस्थेन स रामोभिषेक्ष्यत इत्यनेन सम्बन्धः॥१८॥ कुशचीरेति । लक्ष्मीरिव स्थिता सीता अनुगतेत्य। न्वयः। अनेन राज्यश्रीरन्यन्न परिगृह्णातीति द्योत्यते ॥ १९॥ धनुग्रहेति । धनुग्रहवरः धनुईरश्रेष्ठः ॥२०॥२१॥ शिरसेति । एतो पारदृश्यमान दुःखजं विसृजत्यानं निष्कामन्तमुदीक्ष्य यम् । अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥ १८॥ कुशचीरधरं देवं गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीः तस्य किन्नाम दुर्लभम् ॥ १९ ॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्र भृत्स्वयम् । लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्लभम् ॥२०॥ निवृत्तवनवासंतं द्रष्टासि पुनरागतम् । जहि शोकं च मोहं च देवि सत्यं ब्रवीमिते ॥२१॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनद्रक्ष्यसि कल्याणि पुत्रं चन्द्र मिवोदितम् ॥ २२ ॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् । समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः॥२३॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् । क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ॥ २४ ॥ त्वया ऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे। किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥२५॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः। न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥ सर्वलक्षणसम्पन्नौ । उदितं चन्द्रं प्रतिपच्चन्द्रम् ॥ २२॥ २३ ॥मा शोक इति। हे देवि ! रामे अशिवम् अशुभम् न दृश्यते। अतः शोकः प्रलापादिः दुःखं मनोव्यथावामा मकार्यमित्यर्थः ॥२४॥ त्वयेति । विकृवम्, भावप्रधानो निर्देशः ॥ २५॥ २६ ॥ साह रामः इति पदच्छेदः । सः रामः पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभिस्तिमृभिस्सह क्षिप्रमभिषेक्ष्यते इति सम्बन्धः ॥ १७ ॥ दुःखजमित्यस्य पृथिव्या सहेति पूर्वलोकस्थेन रामोऽभिषेक्ष्यत इत्यनेन सम्बन्धः ॥ १८॥ तथापि तस्य बने विषयसुखं नास्तीति शोचन्ती प्रत्याह-कुशचीरेति । कुशचीरधरमपि देवं दीप्यमान, लक्ष्मीः राजलक्ष्मीः । सीतेव सीतात्मना ॥ १९ ॥ धनुर्घहवरः धनुहन्तीति धनुर्ग्रहाः शूराः तेषां वरः श्रेष्ठः ॥ २०-२५ ॥ मा शोक इति । रामे रामविषये । अशिवमशुभं न दृश्यते, अतः शोकः प्रलापादिः । दुःखं मनोव्यथा वा, मा न कार्यमित्यर्षः ॥ २४-२६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy