SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भू. टी.अ.का. ॥१५२॥ सकलजगत्प्रकाशकस्य सूर्यस्यापि प्रकाशको भवेत । अग्नेरग्निः दाहकस्याप्यनेर्दाहकः । प्रभोः प्रभुः सर्वनियन्तुरपि नियन्ता। श्रियः श्रीः सम्पदोपि सम्पत् । यदा कान्तेरपि कान्तिः, कान्तेरप्यतिशयावह इत्यर्थः। क्षमाक्षमा क्षमाया अप्यतिशयोऽनेनेति भावः॥१५॥ देवतं देवतानां च देवतानामपि सकलस कार्यनिर्वहणक्षम इत्यर्थः । भूतानां भूतसतमः, उत्तमभूतमित्यर्थः । भूतत्वं सत्ता सर्वेषां सत्ता तत्सत्ताधीनेतिभावः। तस्यैवम्भूतस्य सर्वगुणसम्पन्नस्य। दैवतं देवतानां च भूतानां भूतसत्तमः। तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे ॥ १६॥ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः । क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७॥ देशे वने वा पुरे वा के अगुणाः ?न कोपीत्यर्थः। अगुणः प्रतिबन्धकीभूत इति यावत् ॥ १६॥ तनि-" तमेव भान्तमनुभाति सर्वम् " इति श्रुत्यर्थ ) मुपपादयति-सूर्यस्य सकललोकप्रकाशकस्यापि प्रकाशकः । सवितृमण्डलान्तर्वर्ती सन् स्फटिकमुकुरान्तःस्थितदीपन्यायेन प्रकाशयतीति परमार्थः । अग्नेरनिः अग्नेर्वस्तुपरिपाकदाहकत्वादिकं तत्सङ्कल्पाधीनमित्यर्थः । “अहं वैश्वानरो भूत्वा" इत्यादिश्रवणात । प्रभोः प्रभुः ब्रह्मरुद्रादेः सृष्टयादिसामर्थ्यप्रदानेन निर्वाहकः । श्रियः । श्रीः ब्रह्मादीनां यत्कटाक्षलेशायनमीश्वरत्वम् । नारायणस्यापि यदपाङ्गभूयस्त्वनिबन्धनं परब्रह्मत्वम् तस्या अपि यदाश्रयणात् श्रीत्वं सिध्यतीति स्वस्मिन्त्रीश्वरत्वपूर्ति निमित्ताया लक्ष्या अपि स्वरूपनिर्वाहक इत्यर्थः । कीयाः कीर्तिः "तस्य नाम महद्यशः" इति यत्सम्बन्धान्महत्त्वमनितरसाधारणमितिकत्वा की| अपि कीर्त्यावहः । क्षमाशमा सर्वाधारभूतायाः भूमेराधार इत्यर्थः । “ यस्मिन् यौः पृथिवी चान्तरिक्षम्" इत्यादि श्रुतेः । दैवतानां दैवतमित्यनेन “तं देवतानां परमं च दैवतम् " इति श्रुत्यर्थं उक्तः । भूतानां भूतसनमः मनामात्रयता सनानिर्वाहकः । एवं कल्याणगुणाकरत्वमभिव्यज्य हेयगुणविरोधित्वं व्यञ्जयति-तस्य क इति । राष्ट्रे वाप्पथवा पुरे। इति विभूतिद्वयसम्बन्धेपि अजहत्स्वरूपत्वं व्यञ्जितम् । दोषविरोधित्वम् “ अपहतपाप्मा" इत्यादिश्रुतिप्रसिद्धमिति द्योतयितुं हिशब्दप्रयोगः॥ १६ ॥ पृथिव्येति सहेत्यत्र स इति पदच्छेदः । स रामः पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभिः तिसृभिः सह क्षिप्रमभिपेक्ष्यते इति सम्बन्धः ॥१७॥ स्येति । सूर्यस्य सकलजगत्प्रकाशकस्यापि, सूर्यः प्रकाशको भवेत् । अग्नेरग्निः सर्वदाहकस्याग्नेरपि दाहकः । प्रभोः प्रभुः सर्वनियन्तुब्रह्मादेरपि नियन्ता ।। K श्रियः श्रीः सम्पदोपि सम्पत् । कीाः अग्या कीर्तिः कीर्तेरपि प्रशस्त्यापादकः । क्षमाक्षमा सर्वाधारभूतायाः भूमेरप्याधारः ॥ १५ ॥ देवतानां च दैवतं पूज्यः। भूतानां भूतसत्तमः महद्भूतम् । रामस्य परमात्मत्वात्सूर्यस्यापि भवेत्सूर्य इत्यादि श्लोकद्वयेनोक्तं सर्व वास्तवमेवेत्यषगन्तव्यम् ॥ १६ ॥ पृथिव्येति । सहराम इत्यत्र ॥१५२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy