________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
इत्याह किं त इति॥२॥ य इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रेत्यफलोदये आमुष्मिकफलकारणे॥शाया तनि०-ननु पुरुषोत्तमश्चेत् कथं कर्मपावण्यम् ? तबाहशिष्टैराचिरित इति । अनेन लोकानुग्रहार्थत्वमुक्तम् । प्रेत्यफलोदये दशरथस्य परलोकहिते । लोकानुग्रहार्थत्वं प्रदर्शयति श्रेष्ठ इति । श्रेष्ठाचरणमितरानुबाहकमितिभावः। “यद्य दाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इतिगीतावचनात् । वक्ष्यति च “कामवृनस्त्वयं लोकः कृत्स्नः समुपवर्तते । यदृत्नाः सन्ति राजानस्तवृत्तास्सन्ति हि प्रजाः॥" इति ॥४॥
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः । साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥३॥ शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये । रामोधर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥४॥ वर्तते चोत्तमा वृत्तिं लक्ष्मणो ऽस्मिन सदाऽनघः । दयावान सर्वभूतेषु लाभस्तस्य महात्मनः ॥५॥ अरण्यवासे यदुःखं जानती वै सुखो चिता । अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६॥ कीर्तिभूतां पताका यो लोके भ्रमयति प्रभुः । धर्म
सत्यवतधनः किं न प्राप्तस्तवात्मजः॥७॥ पितृवचनपरिपालके रामे शोको न कार्य इत्युक्त्वा लक्ष्मणसीतयोरपि स्वधर्मनिष्ठत्वात् तद्विषयेपि शोको न कार्यः, अपितु प्राप्तलाभत्वात् सन्तोष एव कार्य इत्याह-वर्तत इत्यादिना । अत्र व इति गायत्र्याः पञ्चमाक्षरम् । वर्तते करोति । वृत्तिं शुश्रूषाम् । अस्मिन् रामे । तस्य लक्ष्मणस्य ॥५॥ तनि-शेषस्वरूपानुगुणकैङ्कयनिष्ठतया लक्ष्मणोपि न शोच्य इत्याह-उत्नमां निरतिशयपुरुषार्थरूपां वृनिं कैङ्कर्यकाष्ठां वर्तते अनुतिष्ठति । अनघःप्रमादरहितः।सर्वभूतेषु दया वान समत्वबुद्ध्या सर्वत्र कपामैत्र्यादियुक्तः। तस्य महात्मनः महानुभावस्य । लाभः कैङ्कयमेव पुरुषार्थः॥५॥ अरण्यति। अरण्यवासे यहःखंतहःखं जानती वै जान न्त्येव । तवात्मजमनुगच्छति "स्त्रीणां भर्ती हि दैवतम्" इत्युक्तरीत्यानुगच्छतीत्यर्थः ।। ६॥ तनि०-सहधर्मचारिणी च न शोच्येत्याह-वैदेही विदेहवंशो त्पन्ना। अनेन अयोनिजात्वं व्यज्यते । “वैदेहस्तु विदेहतः" इतिपौराणिकोक्तिः ॥ ६॥ कीर्तीति । कीर्तिभूतां पताकां कीर्तिरूपं ध्वजम् । भ्रामयति सञ्चारयति राममविश्य विलापो न कार्य इत्यत्र हेतुमाह-यस्तयेत्यादि श्लोकद्वयमेकान्वयम् । आयें कौसल्ये ! यस्तव पुत्रः प्रेत्यफलोदये प्रेत्यफलस्य आमुष्मिकसुखस्य उदयो यस्मिन् स तथा । शश्वच्छिष्टैराचरिते धर्म पितृवाक्यपरिपालनरूपधर्म सम्यक स्थितः सन्, हस्तप्राप्त राज्यमपि त्यक्त्वा सत्यवादिनं पितरं साधु सिद्धसङ्कल्पं कुर्वन गतः । वनमितिशेषः । स रामो न शोच्य इत्यन्वयः ॥३॥ ४॥ व इति गायत्र्याः पञ्चमाक्षरं वर्तत इत्यस्यादिमाक्षरेण व इत्यनेन सङ्ग्रहाति। वर्तत इति । अस्मिन् रामे उत्तमा वृर्चि पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारम् । वर्तते करोति । अतस्तस्य रामस्य लाभः सुखमित्यर्थः ॥५॥ अरण्येति । अरण्यवासे यदुःखमस्ति तजानती भर्तुस्तदपनयनाथ वैदेह्यनुगच्छति, अतो रामस्य न दुःखप्रसङ्ग इति शेषः ॥ ६॥ ७ ॥
For Private And Personal Use Only