________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स०४५
पा.रा.भ. तावद्भिर्गुणैर्युक्तमित्यर्थः ॥ १९॥ नहीति । कल्प्यते देवेनति शेषः । कल्पत इतिपाठे-विद्यत इत्यर्थः॥२०॥अयमिति । दीपयते सन्तापयति । उद्धत टी.अको ॥१५॥ प्रभः उत्कटकिरणः॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः॥४३॥
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते। अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥२०॥ अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः । महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवा करः॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंशः सर्गः॥४३॥ विलपन्ती तथा तां तु कौसल्यांप्रमदोत्तमाम् । इदं धयें स्थिता धर्म्य सुमित्रा वाक्यमब्रवीत् ॥१॥ तवार्ये सदगुणे
युक्तः स पुत्रः पुरुषोत्तमः । किं ते विलपितेनैवं कृपणं रुदितेन वा ॥२॥ विलपन्तीमित्यादि । इदं वक्ष्यमाणम् ॥ १॥ तनिक-सुमित्रामुखेन श्रीरामस्य परत्वमभिव्यनक्ति-विलपन्तीमित्यादि । इदं वक्ष्यमाणम् । जन्मान्तरसुकृतवशेन तारामन्दोदर्योरिव सुमित्रायाः परत्वज्ञानमस्तीति सम्प्रदायः । वक्तृत्वलक्षण्याच्च ध्वनिभेदः । स चालकारिकैरङ्गीकतः । धर्मे स्थिता सिद्धधर्मे रामे लग्नचिना । यद्वा धर्मे | जन्मान्तरसुकृते । धयं विशिष्टधर्मादनपेतम् ॥ १॥ सत्पुरुषाचरितं धर्ममाचरन्तं रामं प्रति सन्तोषे कर्तव्ये किमर्थों विषादः कृत इति कौसल्यां समाश्वास यति-तवेत्यादिना ॥२॥ तनि०-आर्ये महाभागे ! तब पुत्रः सः वदान्तवेद्यः पुरुषोत्तमो नारायणः। तत्र हेतुमाह-सद्गुणर्युक्तः अनितरसाधारणानवधिकाति
शयासंख्येयकल्याणगुणयुक्तः । "श्रीपतिः पुरुषोनमः" इति निघण्टुः । तच्छब्दस्य सन्निहितपुरुषोत्तमविशेषणत्वेन वेदान्तप्रसिद्धिद्योतकत्वात, अतः पुत्रबुद्धया न शांच्या पान हीति । कल्प्यते, देवेनेति शेषः । कल्पत इति पाठे-विद्यत इत्यर्थः ॥ २०॥ अयमिति । अर्थ मा दीपयते, सन्तापयतीत्यर्थः ॥ २१ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ अयोध्याकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ पुत्रविधासजनितशोकेन विल पन्ती कौसल्या १५०॥ सुमित्रा समाश्वासयति-विलपन्तीमित्यादिना ॥ १ ॥ कृपणं यथा तथा रुदितेन वा किम् अयुक्तमेवेत्यर्थः । अब हेतुः, सद्गुणैर्युक्तः अत एव पुरुषो। नमः, पुरुषोत्तमस्य न कुत्राप्यपाय इति भावः ॥२॥
For Private And Personal Use Only