________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ।। १४८ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"चक्षुर्देवानामुत मर्त्यानाम्" इति देवमनुष्यादिदृष्टिभूतो रामः पुरतो गच्छति अहं तिष्ठामि वेत्यनुगता दृष्टिः 'दृशिर्वेक्षणे' इति निष्पन्ना सारासारविवेकशालिनी विशेषग्रहण टी.अ. काँ शक्ता राममनुगता । मम हितकारिणी स्वहितं न करोति किम्, अस्वतन्त्रा मे दृष्टिः कथमेवं स्वातन्त्र्यं कृतवती शेष्यतिशयाधानं खलूचितं शेषवस्तुनः । यद्वा मे दृष्टिः राम मनुगता मम चिरपरिचिता मां विहाय राममनुगतेत्यभिसारिकासमाधिः । यद्वा मे दृष्टिः, कैकेयीमन्थरादिदृष्टिश्वेदेवं न करोत्येव 'नन्दामि पश्यन्नपि दर्शनेन इत्येकं चिरपरिचयं सम्पादितवानहं खलु । यद्वा मे दृष्टिः सर्वत्र विषयेषु चपलस्य मे दृष्टिः कथं चापल्यं न गच्छति ? विहाय गतामपि मे दृष्टिरित्यहमनुरक्तिं करोमि । मातरं विहाय पतिमनुसृतायां कन्यायां ममेयमित्यभिमानवत् । ममेन्द्रियं चेन्मामनुसृत्य तिष्ठेत् कथमन्यमनुसरेत् । स्वविषयानुसरणं न दोष इतिचेत्तत्राह - अद्यापि न निवर्तते । अति क्रान्तेऽपि राघवे इति स्वगोचरातिक्रमेपि न निवर्तते, कैकेयीमुखनिरीक्षणव्रीडया किम् ? यद्वा " न च पुनरावर्तते " इत्युक्तापुनरावृत्तिं प्राप्ता किम् ? अनिवर्तने युक्ति माह-न त्वा पश्यामीति । पुनरागता चेत्तव दर्शनं मम कथं न स्यात् । त्वां न पश्यामि स्वरेण पुरोवस्थितां निर्दिशामि । " न चक्षुषा पश्यति" इतिश्रुत्या तन्मुखदर्शना लामेपि तन्मातुस्तव मुखं वा पश्यामीत्यभिलषितम्, तच्च न लब्धम् । राममनुगता दृष्टिः न त्वां पश्यामि, रामे निममा दृष्टिः अन्यं स्पृशति किम् । चक्षुरिन्द्रिय | नाशेपि वागिन्द्रियेण प्राणिमीत्याशयेनाह - कौसल्ये इति । 'एष मे जीवितस्थान्तो रामो यद्यभिषिच्यते ' इति व्यतिरेककाष्ठाभूतायाः कैकेय्याः । “किंपुनः प्रोषिते तात ध्रुवं मरणमेव मे" इत्यन्वयकाष्ठाभूता खलु त्वम् । कौसल्ये " कौसल्या लोकभर्त्तारं सुषुवे यं मनस्विनी " इति चिरकालप्रार्थनया लोकरक्षणार्थं संपादनं कृतम् । तदि दानीं तव दुःखाय जातं खलु । यद्वा कौसल्ये त्वां न पश्यामि अनर्थकर कैकेयीं पश्यच्च सुस्तद्दुःख निवारणाय त्वां न पश्यति किम् ? रामविश्लेषासहनेन सीदन्त्याः दशरथ विश्लेषोपि भविष्यति वेति भीत्या निकटमागतामाह-साध्विति । मम कृत्स्रक्लेशनिवारणाय पाणिना मां संसृज्य आश्वासय । तवादर्शनेन चक्षुरिन्द्रियं गतमिति निश्चिनोमि । तव वाक्यश्रवणेन श्रोत्रेन्द्रियं तिष्ठतीति जानामि । कौसल्ये इत्युक्त्या वागिन्द्रियमपि तिष्ठतीति निश्चिनोमि । गन्धग्रहणाभावेन राममूर्द्धापाघ्राणाय ब्राणेन्द्रियं गतमिति निश्चिनोमि । महाविपयलाभेन तदितरविषयस्याति तुच्छत्वात्स्पर्शेन्द्रियं गतं वा तिष्ठति वेति निश्वेतव्यम् । तस्करः गृहं प्रविश्य कानिचिद्वस्तुनि गृहीत्वा गमनानन्तरं गृहपति रन्धकारे किं किं गतमिति तत्तवस्तु स्पृशन पत्न्यादीन्पृच्छति तत्समाधिरत्र योत्यते । साधु स्पृश-प्रकृतिसम्बन्धकतं कालुप्यमिदं स्थिरं न भवति अतः अजुगुप्स अनिन स्पृश। पाणिना स्पृश अग्निसाक्षिकं प्रीतिपूर्वकं यथा स्पृष्टं तथा स्पृश, रामसंस्पर्शान्वयव्यतिरेकाधीनान्वयव्यतिरेकजीवनं मां तत्प्रतिनिधितया तन्माता त्वं स्पृश । भगवत्स्पर्शालामे तत्संबन्धिस्पर्शेनापि जीवितुं शक्यम् " वाहि वात यतः कान्ता-" इतिवत् । जन्मान्तरसुकृतवशेन श्रीरामे अतीव परत्वज्ञानमस्तु वा दशरथस्य कौसल्यायाश्च । कथमुभयोः रामपरत्वानुसन्धानपूर्वक संभाषणामित्युक्ती ऋषिरेय दशरथादिवचनरीत्या पुनःपुनः परत्वानुसन्धानं करोतीति सम्प्रदायः ॥ ३४ ॥
| ॥ १४८ ॥
For Private And Personal Use Only
स० ४२