SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुखिता इति । तं कालं तस्मिन् काले तावत्कालमिति वा ॥ ३२ ॥ अथेति । कालरायां संहारराज्यम् । प्रपन्नाय प्राप्तायाम् ॥ ३३ ॥ राममिति । राममनुगता दृष्टिः, समुद्रगृहीतं पुनः किं निवर्त्तते ? मे दृष्टिः पष्टिवर्षसहस्रं कृतोपवासादिकं निवर्तते अद्यापि न निवर्त्तते तद्दर्शनाभावेपि तन्मातृ त्वदर्शनं कर्तुमुचिते कालेपि न निवर्तते । न त्वा पश्यामि कौसल्ये रामदर्शनं विना कैकेयीमुखदर्शन पापनिवृत्तये त्वन्मुखं द्रष्टुमुत्सुकोऽस्मि तदपि न सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः । परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ ३२ ॥ अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः । अर्द्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥ रामं मेऽनुगता दृष्टिद्यापि न निवर्त्तते । न त्वा पश्यामि कौसल्ये साधु मा पाणिना स्ष्टश ॥ ३४ ॥ Acharya Shri Kailassagarsuri Gyanmandir लब्धम् । साधु मा पाणिना स्पृश नित्यानुमेयानीन्द्रियाणि कार्यकल्प्यानि । रूपग्रहणाभावात् चक्षुरिन्द्रियं गतमित्यवगतम् । त्वगिन्द्रियमस्ति नवेति | सम्प्रतिजानीहि साधु कैकेय्या कृतसङ्केतो रामं निर्यापितवान् अद्य किंचिदभिनयं करोतीति न मन्येथाः अयमज्ञानादेवं कृतवानिति समनस्कतया स्पृश । यद्वा मां पाणिना स्पृश, राममातृत्वात् तव पाणिस्पर्शनं रामस्पर्शनमिति भावः ॥ ३४ ॥ तनि० - पञ्चेन्द्रियाणां प्रत्येकमन पाहशेषत्वमुच्यते-राममिति । रामं गुणसागरं, न निर्वर्तते समुद्रगृहीतं पुनरायाति किम् ? 'समुद्र इव गांभीर्ये । गुणानामाकरो महान्' इति समुद्रस्थानत्वमुक्तम् । यद्वा रामं मेऽनुगता दृष्टि: 'रामं रमयतां वरम्' इति चेतनाचेतनविभागानादरेण रमयितृत्वगुणस्स खलु, सर्वत्र चक्षुः खलु रूपग्राहकम् । अत्र तु रामे रूपं चक्षुग्रहकम् अनुगतपदार्थदर्शनसमर्थं चक्षुरधुना सञ्चारक्षमं जातम् । “कामरूप्यनुसञ्चरन्" इत्याद्युक्तचेतनरुत्यमचेतनं करोति । देशविशेषे परमपदे क्रियमाणमनुसञ्चरणं संसारचक्रे रामं प्रति क्रियते । यद्वा दृष्टिः राममनुगता । सुखिता इति । ये नरोत्तमाः तं कालं तावत्कालपर्यन्तं जीविष्यन्ति ते सुखिताः । अन्योऽन्यं परिष्वजन्तः पुनरागतं रामं द्रक्ष्यन्तीति योजना ॥ ३२ ॥ अथेति । कालरात्र्यां संहाररात्र्याम् ॥ ३३ ॥ न त्वामिति । हे कौसल्ये! त्वां न पश्यामि अतस्त्वं मां पाणिना साधु सम्यक् स्पृश, कुतः ? मे दृष्टिः अद्यापि न निवर्तते, तत्कुतः ? राममनुगता “रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते " इति श्रुतेः । अतः अद्यापि न निवर्तत इति सम्बन्धः । अयं भावः-चक्षुषो रामेकप्रवणत्व भाग्यलाभ वत्सर्वेन्द्रियाणां तादृग्भाग्यं यदि लभ्येत तदानीं मदन्यो धन्यो न कोऽपीति मनसि निधाय सर्वेन्द्रियाणां तत्मार्थयन स न पश्यामि । तत्र हेतुमाह राममिति । न निवर्तते अतो न पदार्थान्तरं दृश्यते ॥ २४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy