________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ॥१४॥
टी.अ.कां. स०४२
कान्तदुर्बलदुःखाता चिन्तातिरेकेा कान्ता रामविरहेण निस्सत्त्वाः दुःखाताश्च जनाः यस्यां तथा । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते । नात्याकीर्णमहापयां क्वचित्क्वचित् दृश्यमानजनयुक्तमहापयामित्यर्थः । अवान्तरमार्गास्तु केवलं निर्जना इतिभावः ॥२३॥ २४ ॥ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् । विलपन प्राविशदाजा गृहं सूर्य इवाम्बुदम् ॥२४॥ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् । रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५॥ अथ गद्गदशब्दस्तु विलपन मनुजाधिपः । उवाच मृदु मन्दार्थ वचनं दीनमस्वरम् ॥२६॥ कौसल्याया गृहं शीघ्र राममातुनयन्तु माम् । न ह्यन्यत्र ममा श्वासो हृदयस्य भविष्यति ॥२७॥ इति ब्रुवन्तं राजानमनयन द्वारदर्शिनः । कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥२८॥ ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः ॥२९॥ पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् । अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् । उच्चैःस्वरेण चुक्रोश हा राघव जहासि माम् ॥ ३१ ॥ कीदृशं प्राविशदित्यपेक्षयामाह-महादमिति । अक्षोभ्यं सोरगतया । प्राविशदित्यनुपङ्गः ॥ २५ ॥ अथेति । गद्गदः शब्दो यस्य स तथोक्तः। मृदु उपांश मन्दार्थमल्पार्थम्, शब्दप्रपञ्चवदित्यर्थः । अस्वरं कण्ठस्वररहितम्॥२६॥ कौसल्याया इति । नयन्तु, द्वारदर्शिन इति शेषः । अन्यत्र तब्यतिरिक्त स्त्रीगृहे ॥२७॥ इतीति । द्वारदर्शिनः मार्गप्रदर्शकाः द्वारपालकाः। न्यवेश्यत निवेशितः। विनीवत् विनीताईम् ॥२८॥ तत इति । लुलितं कलुषितमिति यावत् ॥ २९ ॥ पुत्रेति । नष्टचन्द्रमुपलक्षणमेतत्, चन्द्रनक्षत्रतारादीनमित्यर्थः ॥ ३०॥ तनिक-दृष्टान्ताविरोधाय नष्टनक्षत्रतारकमित्यध्याहार्यम्॥३०॥३३॥ सम्मर्दरहितो महापथो यस्यां ताम् । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते ॥ २४ ॥ सुपर्णेन हतोरगमिति रिपूणां निर्भयप्रवेशमारे दृष्टान्तः ॥२५॥ अयेति । मृदु मन्दोच्चरितम, मन्दार्थम् अवद्धार्थम् । दीनं शोच्यम् । अस्वरं शुद्धकण्ठध्वनिरहितम् ।। २६ ॥ २७ ॥ द्वारदर्शिनः द्वारपालाः, विनीतवत् विनीता सन्तः, कौसल्याया गृहमनयन् तत्र तैपवेश्यन्त । भवार्थे यस् । ते द्वारपाला अपि तत्रैव स्थिता इत्यर्थः ॥ २८ ॥ तत इति । लुलितं कलुषितम् ॥ २९-३१॥
॥१४॥
For Private And Personal Use Only