________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रितिशेषः । स्त्रीभिः परिचारिकाभिः ॥ १५॥ १६ ॥ उत्थास्यतीति । प्रस्त्रवणात् निर्झरात, तत्समीपादित्यर्थः । “उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ १७ ॥ द्रक्ष्यन्तीति । अनाथवत् गच्छन्तमित्यन्वयः ॥ १८॥ सेति । सुखसदोचिता सुखस्य सदोचिता । कण्टकेष्वाक्रमणं पद ।
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः। विनिश्वसन प्रस्रवणात् करेणूनामिवर्षभः ॥ १७॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुंवनेचराः।राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८॥सा नूनं जनकस्येष्टा सुता सुखसदो चिता।कण्टकाक्रमणाक्रान्ता वनमद्य गमिष्यति ॥ १९॥अनभिज्ञा वनानां सा नूनं भयमुपैष्यति । श्वापदानदितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥२०॥ सकामा भव कैकेयि विधवा राज्यमावस । न हितं पुरुषव्याघ्रं विना जीवितु मुत्सहे ॥२१ ॥ इत्येवं विलपन राजा जनौघेनाभिसंवृतः । अपनात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ २२ ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् । क्लान्त दुर्बलदुःखात नात्याकीर्णमहापथाम् ॥ २३ ॥ विक्षेपः॥ १९॥ अनभिज्ञेति । श्वापदानार्दितं श्वापदाः व्याघ्रादिहिंस्रपशवः तेषाम् आनर्दितं शब्दम् ॥ २० ॥२१॥ इतीति । अपनातः मृतस्त्रातः । “अपनातो मृतस्रातः" इत्यमरः। अरिष्टमशुभम् “आरिष्टे तु शुभाशुभे" इत्यमरः। ननु राममनुगम्य पुनः पुरप्रवेशसमये अपनातोरिष्टमिति कथ मश्लीलमुक्तम् ? सत्यम् दशरथो हि तदानी नूनं भयमुपैष्यतीत्यादिना सीताविपत्तिं शङ्कमानस्तद्वारा रामविपत्तिं तन्मुखेन स्वस्यापि विनाशं शङ्कितवान् अत एव सीताद्वारा रामविपत्तिशङ्या सकामा भव कैकेयीत्युक्तवान्, स्वविनाशाभिप्रायेण विधवा राज्यमावसेत्युपदर्शितवांश्च । तेनापत्रातइवेत्युक्तिः राजबुद्धयनुसारादुचितैव ॥ २२ ॥ शून्येत्यादि । शून्यचत्ववेश्मान्तां निर्जनचतुष्पथगृहद्वाराम् । संवृतापणदेवतां पिहितापणदेवतागृहद्वाराम् ।। सा नूनमिति । सुखसदोचिता सुखस्य सदा उचिता ॥ १९ ॥ अनभिज्ञेति । श्वापदानर्दितम् श्वापदाना व्याघ्रादिहिंस्रपशूनाम् आनर्दितं शब्दम् ॥२०॥२१॥ इतीति । |अपस्नात:मृतस्नातः । अरिष्टं सूतिकागृह, तद्वत्कश्मलम् ॥ २२ ॥ तदेव प्रदश्यते-शून्येति । शून्याः सम्मार्जनरहिताः चत्वरं चतुप्पथम् वेश्मनामन्ताः मध्य प्रदेशाश्च यस्यां तां तथोक्ताम् । संवृतापणदेवता पिहितापणदेवतागृहामित्यर्थः । क्लान्ताः दुर्बलाः दुःखार्ताश्च जना यस्यां तथा । नात्याकीर्णः अत्यन्तप्राणि
For Private And Personal Use Only