SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चा.रा.भू. ॥ १४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin गर्भप्रतिमे देवकुमारसदृशे ॥२३॥ कृत्यकृत्येति । मेरुमर्कप्रभा यथेति सूर्यस्य प्रादक्षिण्येन मेरुगमनमिति सर्वदा तस्य मेरुसम्बन्धोऽस्त्येव ॥२४-२९॥ ॐ टी.अ.कॉ. पितेति । सन्नः अवसन्नतेजा इत्यर्थः ॥ ३० ॥ स इति । अचिन्त्यात्मा इयत्तया परिच्छेत्तुमशक्यधैर्य इत्यर्थः ॥ ३१ ॥ राम इति । याहि तिष्ठेति उभयत्रा स० ४० कृतकृत्या हि वैदेही छायेवानुगता पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् । भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ २५ ॥ महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् । एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २६ ॥ एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् । नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ २७ ॥ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ २८ ॥ शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुअरे ॥ २९ ॥ पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाभवत् । परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ ३० ॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः । सुतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ ३१ ॥ रामो याहीति सूतं तं तिष्ठेति स जनस्तदा । उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥३२॥ निर्गच्छति महाबाहो रामे पौरजना श्रुभिः । पतितैरभ्यवहितं प्रशशाम महीरजः ॥ ३३ ॥ रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् । प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥३४॥ सुस्राव नयनैः स्त्रीणामास्त्रमायाससम्भवम् । मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥३५॥ चोदयदितिशेषः । उभयं यानं स्थानं च । अध्वनि रामजनाभ्यां चोदितः सन् कर्तुं नाशकत् ॥ ३२॥ निर्गच्छतीति । अभ्यवहितं सिक्तम् ॥३३॥ रुदिता श्रुपरियूनमिति । हाहाकृतं हाहाकारवत् । मत्त्वर्थीयलोपः । अचेतनं मूढम् । राघवस्य दशरथस्य । पुरं पुरस्थजनाः॥ ३४॥ सुस्रावेति । नयनैः नयनेभ्यः। महतीति । एनमनुगच्छसीति यत् एषा ॥ २६-२९ ॥ पिता हि राजेति । सन्नः खिन्नः ॥३०-३२ ॥ निर्गच्छतीति । अभ्यवहितम् अवसिक्तमिति यावत् ॥ ३३-३५ ॥ For Private And Personal Use Only ॥ १४२॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy