________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kalassagarsur Gyarmandir
आयाससम्भवं खेदजनितम् । संक्षोभः उल्ललनम् । सलिलं मकरन्दरूपम् ॥ ३५॥ दृष्ट्वेति । एकचित्तगतम् एकचित्ततां गतम् ॥ ३६॥ तत इति । प्रेक्ष्य, स्थितानामितिशेषः ॥३७॥ हा रामेति । हा रामेति परिदेवनप्रकारः। राममातेत्यत्रापि हेत्यनुषचनीयम् । सन्धिरापः । राममातरित्यर्थः।
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन हतमूल इव द्रुमः ॥ ३६॥ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३७॥ हा रामेति जनाः केचिद्राममातेति चापरे । अन्तःपुरं समृद्धं चक्रोशन्तः पर्यदेवयन् ॥ ३८ ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् । राजानं मातरं चैव ददर्शानुगतौ पथि ॥३९॥स बद्ध इव पाशेन किशोरोमातरं यथा। धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदेक्षत॥४०॥ पदातिनों च यानाहावदुःखाहीं सुखोचितौ । दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥४१॥ न हि तत् पुरुष व्याघ्रो दुःखजं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रादित इव दिपः ॥ ४२ ॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् । बद्धवत्सा यथा धेनू राममाताऽभ्यधावत॥४३॥ तथा रुदन्ती कौसल्या रथं तमनुधावतीम्।क्रोशन्ती
रामरामेति हा सीते लक्ष्मणेति च ॥४४॥ जनाः क्रोशन्तः सन्तः । पर्यदेवयन् अरुदन् । समृद्धम् अन्तःपुरम् । अन्तःपुरजनश्च पर्यदेवयदिति विपरिणामेनानुषङ्गः॥ ३८ ॥अन्वीक्षमाण इति । अन्वीक्षमाणः आकोशानुसारेण पश्चात्सामान्यत ईक्षमाणः॥३९॥ स इति । किशोरोऽश्वबालः। संक्षिप्तः बद्ध इतियावत् । प्रकाश नाभ्युदेशत अपाङ्गेना भ्युदेशतेत्यर्थः॥४०॥४१॥ नहीति । सहितुं सोढुम् । तोत्रादितः वैणुकेन पीडितः। "तोत्रं वैणुकम्" इत्यमरः ॥ १२॥ प्रत्यगारमिति । बद्धवत्सा वत्सकारणात् अगारं प्रत्यायान्ती धेनुरिव । वत्सला राममाता अभ्यधावत, स्थमितिशेषः॥४३॥ तथेत्यादि । नृत्यन्तीमिवेति तद्वदितस्ततः परिश्रमन्ती। राष्ट्वेति । एकचित्तगतम् एकचित्तत्वं प्राप्तम् ॥ ३६-३८॥ अन्वीक्षमाणः पश्चादीक्षमाणो रामः । पितरं मातरं च ददर्शति सम्बन्धः ॥ ३९ ॥ स बद्ध इति । किशोरः वालाश्वः, संक्षिप्तः निबद्धः, प्रकाशं नाभ्युदेक्षत, सङ्कचितदर्शनव्यापारो बभूवेत्यर्थः॥ ४० ॥ पदातिनाविति । दृष्ट्वा रामः पितराविति शेषः ॥४१॥ न हीति। पितुः मातुश्च दुःखदं दर्शनं सहितुं न शक्ता दुःखितो पितरौ द्रष्टुं न शक्त इत्यर्थः । तोत्रं प्रतोदः (दुःखदमितिपाठः)॥४२॥ प्रत्यगारमिति। अगारं प्रति वत्स कारणाव बद्धवत्सा धेनुर्यथा धेनुरिव । राममाता कौसल्या । अभ्यधावत राममिति शेषः ॥४३॥४४॥ स०-राममाता इत्यत्र हे राम! मा अत मा गन्छ । माऽयं न मार ॥ ३८ ॥
For Private And Personal Use Only