________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
नारूढान् दृष्ट्वा अश्वानचोदयदिति योजना | धृष्टं सधैर्यम् । सम्मतान् श्रेष्ठानित्यर्थः । + यथान्यासमेव वास्तु । तदा तं रथमितिश्लोको वनवासमिति श्लोकः तथैवेतिश्लोकश्चैकं वाक्यम् । सीतात्मानोऽलङ्कारं कृत्वा यानि श्वशुरो ददौ यानि भ्रातृभ्यामानीतानि आयुधजालानि कवचानि सचर्म कठिनं च प्रतियाते महारण्यं चिररात्राय राघवे । बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ १८ ॥ तत्समाकुलसम्भ्रान्तं मत्त सङ्घपितद्विपम्। यशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ १९ ॥ ततः सबालवृद्धा सा पुरी परमपीडिता । राममेवाभि दुद्राव धर्मार्त्ता सलिलं यथा ॥ २० ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः । बाष्पपूर्णमुखाः सर्वे तमूचुर्भृश निस्वनाः ॥ २१ ॥ संयच्छ वाजिनां रश्मीन् भूत याहि शनैः शनैः । मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ २२ ॥ आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २३ ॥
ॐ तत्सर्वे रथोपस्थे प्रतिन्यस्यारुरोहेत्यन्वयः ॥ १४-१७ ॥ प्रतियात इति । चिररात्राय चिरकालम् । नगरे मूर्च्छा बभूव नगरस्थस्त्रीबालादिषु दुःखाति शयेन विसंज्ञता बभूवेत्यर्थः । बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थमागतजनपदजनस्य ॥ १८ ॥ तदिति । समाकुलम् अन्तःकरण क्षोभ युक्तम् । सम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तं, सर्वेन्द्रियक्षोभवत् पौरजनयुक्तमित्यर्थः । मत्तसङ्कुपितद्विपं व्यसनातिशयेन सङ्कुपितमत्तद्विपमित्यर्थः । इयशिक्षित निर्घोषं परितापातिशयेन ततइतश्चलतां हयानां भूषणरवेण स आतघोषमित्यर्थः । “भूषणानां तु शिञ्जितम् " इत्यमरः । अतएव महास्वनमासीत् ॥ १९ ॥ तत इति । परमपीडिता रामविरहदुःखेनेतिशेषः ॥२०॥ पार्श्वत इति । लम्बमानाः रथैकदेशमाश्रित्येतिशेषः ॥ २१ ॥२२॥ आयसमिति | देव रथमिति पाठः ॥ १७ ॥ प्रतियात इति । चिररात्राय चिरकालावस्थानाय । नगरी मूर्च्छा नगरस्थस्त्रीबालवृद्धादिषु दुःखातिशयेन नगर्येव विसंज्ञितेव बभूवेत्यर्थः नगरी इति पाठः) बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थ, समागतजानपदस्य भटादीनां वा मूर्च्छा बभूवेत्यर्थः ॥ १८ ॥ तदिति । तत्पुरं समा कुलम् इतिकर्तव्यतामहम्, सम्भ्रान्तं रामानुगमनत्वरायुक्तम् । मत्ताः अत एव सङ्कुपिताः द्विपा यस्मिन् तनथा । हयानां शिक्षितानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषो ध्वनिर्यस्मिंस्तत्तथा । अत एव पुरं महास्वनमासीत् ॥ १९ ॥ २० ॥ पार्श्वत इति । तं सुमन्त्रमित्यर्थः ॥ २१ ॥ २२ ॥ आयसमिति । देवगर्भप्रतिमे देवकुमारसदृशे । यद्यस्मात् कारणात् ।। २३-२५ ।। स- देवगर्भप्रतिमे हिरण्यगर्भसदृश इत्यर्थः ॥ २३ ॥ + यथान्यासम्-तं रथं ।। वनवासं ॥ तथैवायुच ॥ अथो जलनसङ्काशं ॥ इति लोकक्रमः ।
For Private And Personal Use Only