________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
रथमिति । यत्र यस्मिन् प्रदेशविषये ॥ ११ ॥ चतुर्दशेति । चतुर्दशवर्षेष्वेक दिवसापनयनमपि महान् लाभ इति धिया त्वरयति तान्युपक्रमि ॥ १४१ ॥ तव्यानीति । देव्यासि चोदितः अद्यैव गच्छ इति कैकेय्या चोदितत्वादित्यर्थः ॥ १२ ॥ तमिति । अलङ्कारं कृत्वा श्वशुरदत्तवस्त्राभरणादिभिरिति रथमारोह भद्रं ते राजपुत्र महायशः । क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ ११ ॥ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया । तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥ तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा । आरुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ १३ ॥ अथो ज्वलनसङ्काशं चामीकरविभूषितम् । तमारुरु हतुस्तूर्ण भ्रातरौ रामलक्ष्मणौ ॥ १४ ॥ वनवासं हि सङ्ख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १५ ॥ तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १६ ॥ सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् । सुमन्त्रः संमतानश्वान् वायुवेगसमान जवे ॥ १७ ॥ शेषः ॥ १३ ॥ एतच्श्लोकानन्तरमथोज्वलनेति श्लोकः पठितव्यः । अथो इति । ज्वलनसङ्काशम् आयुधपूर्णत्वादिति भावः । वनवासं हीति श्लोकस्तथैवेति श्लोकस्सीतातृतीयानितिश्लोकश्चैकं वाक्यम् । श्वशुरो दशरथः । सीतायै यानि ददौ तानि च रथोपस्थे प्रतिन्यस्य तथा भ्रातृभ्यां दत्तान्यायुधजालानि कवचानि सचर्म चर्मपिनद्धम् अल्पकण्डोलं कठिनं तत् खनित्रं च रथमध्ये प्रतिन्यस्य सीता तृतीया स तथा ॥ ८-१० ॥ रथमिति । यत्र यद्देशप्रापणे। मां वक्ष्यसि नियोजयसि तं देशं क्षिमं प्रापयिष्यामि ॥ ११ ॥ कुतः ? यानि चतुर्दशवर्षाणि त्वया वने वस्त व्यानि तान्यद्यैवोपक्रमितव्यानि आरम्भणीयानि । कुतः ? कैकेय्या अद्यैव गच्छेति हि चोदितोऽसि ॥ १२ ॥ तं रथमिति । हृष्टेन इदानीं पतिसेवा लब्धेत्या नन्दयुक्तेन चेतसा उपलक्षिता ॥ १३ ॥ अयो इति । रामलक्ष्मणौ रथमारुरुहतुः ॥ १४ ॥ वनवासमिति । श्वशुरो दशरथः ॥ १५ ॥ तथैवेत्यादि लोकद्रयमेकं वाक्यम्। सुमन्त्रो भ्रातृभ्यां रामलक्ष्मणाभ्याम् आनीतान्यायुधजालानि कवचानि । सचर्म चर्मपिनद्धम् । लक्षणया पिटकमित्यर्थः कठिनं खनित्रं च रथोपस्थे रथमध्ये प्रतिन्यस्य निक्षिप्य तत् सीताये दशरथदत्तवस्त्राभरणादिजातं च प्रतिन्यस्य ॥ १६ ॥ रथमारूढान् सीतातृतीयान् दृष्ट्वा अश्वानचोदयदित्यन्वयः । एतत्पक्षे दृष्ट्वा स०-हृष्टेन चेतसा रक्षोवियोमो मविष्यतीति सन्तोषः ॥ १३ ॥ ननु वसनं सासनं यथाऽकारि बितीर्थ चीरं वीरस्य तस्याः कथं रथनयन सम्मतमितिचेन्न, तेवनेन वनगमने मन्थरं गतिः स्वात् स्वाच्चान्त राय इति तदमन्थरतायै समसमीरजवतुरगरथगतिमनुमेने सेति मन्तव्यम् । अत एव "नोत्सुकस्य विलम्बनम्” इति तदुक्तिः ॥ १४ ॥
*अथ इत्यवायु
इ. लोकात्परं सीतातृतीयान् इति लोकात्पूर्व कचित्पाठो दृश्यते ।
For Private And Personal Use Only
टी.अ.कां.
स० [४०
॥ १४१ ॥