________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
विदि जनकात्मजाम्-अहं यथा भवविश्लेषं न सहामि तथा सीता च भवविश्लेषं न सहते । अयोध्यामटवीं विदि रामविश्लेषण अयोध्या यथा 'अपभष्टमनुष्या च' इत्यादी वस्थां प्राप्ता तथा अटव्यपि “ अपि वृक्षाः परिम्लानाः" इत्याद्यवस्थां पामोति । रामं दशरथं विधि-दशरथो यथा सम्राट् बभूव तथा रामोपि सम्रा भविष्यति ।। मां विद्धि जनकात्मजाम्-अहं यथा सम्राण्महिषी तथा सीतापि भविष्यति । अयोध्यामटवीं विद्धि-अटवी अयोध्यावत् समृबपुष्पफला भविष्यति । यद्वा राम पदातिरिति मावर्मस्थाः । दशरथं पुष्पकातिरथभचारिणं विद्धि । दश रथाः यस्य, दशसु दिशास्वप्रतिहतो रथो यस्पोति च विग्रहः । मां विदि जनकात्मजां देवासुरादियुद्धेषु दशरथेन सह यथा अहं सञ्चसामन सीता रामेण सञ्चरिष्यति । अयोध्यामटवीं विद्धि इदानीमटव्यां यथा नित्यसञ्चारः तथा अयोध्यायां नित्य सञ्चारौ भविष्यति । यद्वा दशरथं रामं विद्धि-रामे यथा पितृत्वबुद्धिपूर्तिः तथा शरथेऽपि कुरु । “अहं तावन्महाराजे पितृत्वं नोपलक्षये । भाता भर्ता च बन्धुश्च | पिता च मम राघवः ॥" इत्युक्तरीत्या दशरथे अवज्ञामकत्वा रामस्य दशरथे पितृत्वबुद्धिपूर्तिमनुसृत्य त्वयापि ताइशबुद्धिः कार्या । मां विद्धि जनकात्मजा-दशरथ पाणिग्रहणकृतदोषं मनस्यकत्वा रामसपलीमातृत्वप्रयुक्तबहुमानं वानुसृत्य मयि सीतायामिव मातृत्वबुद्धिपूर्तिः कार्या । अयोध्यामटवीं विद्धि “ वनं नगरमेवास्तु येन गच्छति राघवः" इत्युक्तरीत्या अयोध्यावमतिर्न कार्या । रामपादुकासनाथत्वेनायोध्याप्युद्देश्यतयानुसन्धेया । यहा रामं दशरथं पक्षिरथं गरुडरथमिति यावत् । “दशः पक्षी विहङ्गमः" इति निघण्टुः । जनकात्मजां मां लक्ष्मी विद्धि " इन्दिरा लोकमाता मा" इतिनिघण्टुः । “ सीता लक्ष्मीर्भवान् विष्णुः" इति वक्ष्यति ।। अटवीमयोध्यां विवि देवानां पुरं परमपदाख्यां विद्धि । “देवानां पूरयोध्या " इतिश्रुतेः । यद्वा रामं विद्धि दशरथं विदि-सावकाशनिरवकाशयोः को वानुवर्तनीय इति सम्पतिश्चिन्वित्यर्थः । मां विद्धि जनकात्मजां विद्धि-दासीपरिजनसहितातहितयोः का बानुवर्तनीयेति विचारय । अयोध्यां विद्धि अटवीं विदि-दृष्टफलादृष्टफलयो | बुद्धिमता किंवा अपेक्षणीयम् । एवं बहुगुणलाभात्तात्कालिकदुःखानुसन्धानं न कर्त्तव्यमित्याह गच्छति । रामो येनयेन पथा गच्छति तेनतेन पथा " कामरुप्यनु सञ्चरन् " इत्याद्युक्तरीत्या कैङ्कय कर्तुं गच्छ । “एतत्साम गायन्नास्ते " इत्युक्तरीत्या परमपदइवैकत्र स्थिति मा कुरु, राममनुसृत्यानुसृत्य कैङ्कर्ष कुरु । तात भगव | कैङ्कर्यान्वयबहुमानबुद्धया तातेत्युक्तिः । तब माताहं कैकेयीवापकीति यथा न गच्छामि तथा मां तारय । यथासुखम् “ अहं सर्व करिष्यामि " इत्युक्तरीत्या कार्यसुखं करलब्धम् । यद्वा रामस्प यथा सुखं भवति तथा । वक्ष्यति " भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण" इति । यद्वा अयोध्यायां यथासुखं तथा वने च कामये न त्वया विना " इत्युक्तरामसंश्लेषसुखं खलु त्वयापेक्षितम् । यथासुखं गच्छेत्यस्य इत्यबाचेति पूर्वेण सम्बन्धः ॥ ९॥
For Private And Personal Use Only