________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandir
www.kobatrth.org
बा.रा.भ.
RAJAS
दशति मत्स्यकच्छपोरगादीन् दंष्ट्राव्यापारविषयान् करोतीति दशः पक्षी "दश दशने” इति धातुः। दशनं दंष्ट्राव्यापारः । पचायच । पृषोदरादित्वा 31 दनुनासिकलोपः। स गरुडा रथो यस्य तम्, विष्णुं विद्धीत्यर्थः । जनकात्मजा मां लक्ष्मी विदि । अटवीमयोध्याम् अपराजिताख्यां वैकुण्ठनगरी विद्धि । तदासस्थानमितिभावः । यद्वा रामं दशरथं च विद्धि, उभयोस्तारतम्यं पश्येत्यर्थः। मां जनकात्मजां च विद्धि, गुणतः आलोचय मदपेक्षया सीतेवर
ततः सुमन्त्रः काकुत्स्थं प्राअलिक्यिमब्रवीत् । विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ १०॥ तव हितपरेतिभावः । अयोध्याम् अटवी च विद्धि एतन्नगरापेक्षया वनमेव तव कैडौंकान्तस्थानतयोत्कृष्टमित्यर्थः । यद्वा दशरथं रामम् उपरत विद्धि, मां जनकस्य पितुरात्मजां विद्धि, कैकेयीविवासिततया पितृगृहवर्तिनी विद्धीत्यर्थः । अयोध्यामटवीं विद्धि, निर्जनेयं भविष्यतीत्यर्थः। एवं तात्पर्यान्तराण्यूह्यानि ॥९॥१०॥ तनि०-रामं दशरथं विद्धि-सोपाधिकपितरि दशरथे आतिनेहं विहाय निरुपाधिकपितार रामे प्रीति कुर्वित्यर्थः। मां विद्धि जनकात्मजां सोपाधिकमातरं मां विहाय निरुपाधिकमातरि सीतायां भक्तिं कुर्वित्यर्थः । अयोध्यामटवौं विद्धि-सोपाधिकाम् अयोध्या विहाय रामनिवासत्वेन निरुपाधिकमायदेशे बने पीर्ति कुर्वित्यर्थः । यद्वा रामं दशरथसमं विद्धि "ज्येष्ठश्चाता पितसमः" इतिस्मरणात । जनकात्मजा मातसमा विद्धि । अटवीम् अयोध्यां तयोग्यतमा विदि । अथवा थे। रामं दशरथसदृशगुणं विद्धि “गुणैर्दशरथोपमः" इत्युक्तेः। मां विद्धि जनकात्मजा गुणबी सीतां मामिव सेव्यां विदि । रमणीयवस्तुसम्पन्नतया अटवीमयोध्यावद् भोग्यतमां विदि । रामं दशरथं विदि-दशरथमिव खीपरवशं विद्धि । तच्च मृगानुसारित्वादिषु वक्ष्यते । मां विदि जनकात्मजाम्-अहं यथा राममनुगच्छेति वदामि एव । मेव वदिष्यति । तच्च तत्रैव सष्टम् । अटबीमयोध्यां विद्धि-अटवीमपि विहायान्यत्र गच्छेत्, सर्वत्र सावधानो भवेति तात्पर्यम् । यहा रामं दशरथमिवातिशूरं विद्धि देवासुरयुद्धे दशरथस्य शौर्य प्रसिद्धम् । अहं यथा भर्तृविजये अभिनन्दामि जनकात्मजाप्येवमभिनन्दिष्यति । तच्च “ तं दृष्ट्वा शत्रुहन्तारम्" इत्यत्र स्पष्टीभविष्यति । अयोध्यामटवीं विधि-व्याघ्रावासं गुल्ममिव अटवीमयोध्यामिव विद्धि । रामं दशरथं विधि-दशरथो यथा रामविश्लेषं न सहते तथा रामो युष्मविश्लेषं न सहते । मां दशरथं रामम् उपान विद्धि । भर्तीभावान्मा जनकस्य पितुः आत्मजा पितगृहवर्तिनीं विद्धि । रामेण सह सर्वेषां निर्गमनात अयोध्यामटवीं विद्धि । यद्वा राम ।। विद्धि दशरथं च विद्धि, परिचारिकापरिचारकयो वर्वोः को वा अनुवर्त्यः ? इति विचारय । अयोध्या विद्धि अटवीं विद्धि, ऐहिकसुखराज्यभोगपारलौकिकज्येष्ठा नुवर्तनधर्मयोः को वा गरीयानिति विचारयेत्यर्थः । लक्ष्मणमिति । संसिद्ध संसादने गमने निश्चयवन्तम् , गमनोयुक्तमित्यर्थः । प्रियराघवम् प्रियो राघवो यस्य
Al॥१४॥
For Private And Personal Use Only