________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyarmandir
पा
नीति । गतित्वे धर्मशास्त्रानुमतिं दर्शयति एष इति ॥६॥ ज्येष्ठानुवर्तनादपि परमधर्म कुलोचितं दर्शयति-इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापि रामो रक्षणीय इतिभावः ॥७॥ लक्ष्मणमिति । संसिद्धं “पिधु गत्याम्" इत्यस्माद्धातोनिष्ठायां रूपम् । गमनोयुक्तमित्यर्थः । गच्छगच्छेति वीप्सया सुमित्राया अपि रामानुवर्त्तने महानादरो द्योत्यते ॥ ८॥ वनवासे पितृमातृनगरस्मरणे मनश्वाञ्चल्यं भविष्यतीतिधिया तत्रैव प्रतिनिधि
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥७॥ [ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् । ] लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् । सुमित्रा गच्छगच्छेति पुनःपुनरुवाच तम्
॥८॥रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ९॥ कल्पयति-राममिति । यथासुखं गच्छेत्यस्य इत्युवाचेति पूर्वेण सम्बन्धः। रामं दशरथं विद्धि, पितरमवगच्छेत्यर्थः । जनकात्मजां मां विद्धि, मातरं विद्धीत्यर्थः । अटवीमयोध्याम्, तद्वत् भोगस्थानं विद्धि । गच्छ तात यथासुखम् तदनुवर्तनमेव उचितं सुखमित्यर्थः । यदा रामं दशरथं विद्धि ते गतिः शरणम् । कुतः ! ज्येष्ठवशगो भवेदिति यत् एष एवं धर्म इति योजना ॥६॥ इदं हीति । इदं ज्येष्ठातुर्वतनरूपम् । धर्मान्तरमप्याह दानमिति ॥७॥ वनवासे पितृमातृनगरस्मरणेन मनश्चाश्चल्यं भवतीतिधिया तत्रैव पित्रादिप्रतिनिधि कल्पयति-राममिति । गच्छेत्यस्य उवाचेत्युत्तरेण सम्बन्धः । रामं दशरथं पितरं विद्धि, जनकात्मजा मां मातरं विद्धि, अटवीम् अयोध्या नगरीं विद्धि । यद्वा राम दशः पक्षी रथो यस्य तं दशरथं विष्णुं विद्धि । “दशः पक्षी विह गमः" इति हलायुधः । जनकात्मजा मां लक्ष्मी विद्धि । अटवीम् अयोध्या योद्धमशक्याम् विष्णुपुरीं विद्धि । “देवानां पूरयोध्या" इति श्रुतेः । अथवा
स-सुमित्रागच्छगछ इत्यत्र सुमित्रा आगच्छ गच्छेति छेदः । तथाच प्रियराघवं भागच्छ गच्छेति पुनः पुनरवाच । लोके लोकाः स्वान् प्रति गत्या आधास्वामीति गत्ला आपाहीति वा बक्कारो न तु गच्छेत्येतन्मात्रयादिन इति एवमुक्तिः । तत्रापि अननुमतं गमन मिति प्रस्तुतस्यापि गमन पश्चादुक्तिः सकलकामितस्य आगमनस्य प्रथमत मागण्हेत्यनेनोक्तिरिति इयम् ॥ ८ ॥ दशसु इन्द्रियेषु रथो गमनं यस्य तम् । दशम्प इन्द्रियेभ्यो रथो गतिः विषयप्रातिरिति यावत् । येन तं । “ रथ गती" इति धातोः। रामं दशरथं विदि दशरथस्याजस्थानाभावात्तस्थाने रामं जानौहीत्यभिप्राथः । मां जनकात्मजां तामिवारण्य वर्तिनी विदि । पत्यपत्यवियुक्ताथा मन भवनवासोपि वनवासतुल्य इति भावः । दशरथं दशसु विश्वप्रतिहतगतिमद्वायुरूप हनुमन्तं राम तमिव रक्षकं विद्धि । हेजनक तात लक्ष्मण ! मां रमारूपिणी सीतां आमजा तामिव विदि फलजलाहरणादिना तो रक्षेति भावः । आत्मा वर्षजाता सीतो एकान्तप्रदेशेपि मामिव विदीपयर्थः । गच्छता रामेण सह अत गन्छेति वा “ अत सातत्यगमने" इति धातोः ॥९॥
• रामं दशरथं विद्धाति झोकपाठानन्तरं लक्ष्मण वेवमुक्वेतिश्लोकः पठनीय इति महेधरतीर्थस्याभिमतः ।
PAN
For Private And Personal Use Only