________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१३९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः ॥ १ ॥ २ ॥ अन्वक्षमिति । अन्वक्षम् अनुपदम् “अन्वगन्वक्षमनुगेनु पदम् ” इत्यमरः ॥ ३ ॥ ४ ॥ सृष्ट इति । सृष्टस्त्वम्, दैवेनेतिशेषः । भ्रातरि गच्छति देव्या सह पुष्पितवनदर्शनपारवश्येन गच्छति सतीत्यर्थः । प्रमादम् अनवधानम् । मा कार्षीः सावधानो भवेत्यर्थः । सृष्ट इति यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत एवं मया सुहृज्जने रामे स्वनु तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह । राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् । अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मूर्क्युपाघ्राय लक्ष्मणम् ॥ ४ ॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ! रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ ५ ॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ । एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥
रक्तस्त्वं वनवासाय सृष्टः । वने रामानुवर्तनायोत्पादितः, अतो रामे गच्छति प्रमादं मा कार्षीः। रामगमनसौन्दर्याकृष्टमनस्कतया रक्षणकर्मण्यनवहितो माभूरित्यर्थः। यद्वा रामे वनं गच्छति त्वमत्रैव मा तिष्ठेतिभावः ॥ ५ ॥ तनि० सृष्टस्त्वं नैरपेक्ष्येण रामचरणासक्तः खलु भवान् । मया वक्तव्यं किम् दास्यकरणे चक्षुःश्रवास्त्वं वनवासाय रामेण सह त्वया वनं गम्यते चेत् मत्तः उत्पत्तिप्रयोजनं लब्धम्, तत्सहायार्थं खलु मयोत्पादितः । स्वनुरक्तः सुहृज्जने सुहृज्जनमात्रे स्वनुरक्तस्त्वम्, ततः सर्वोपजीव्ये रामे अनुरक्तो भव । यद्वा सुहृज्जने रामे भवतः तस्मिन्नतीव प्रीतिरस्ति खलु इदानीं गन्तव्यमिति मया वक्तव्यं किम् ? तथापि नियमनीयं किंचिदस्ति रामे प्रमादं माकार्षीः कोऽयं प्रमाद इत्यत आह पुत्र भ्रातरि गच्छतीति । श्रीरामगमनविशेषे दृष्टिं दत्वा रक्ष्यवस्तुभ्रंशं मा कुरु ॥ ५ ॥ रामगमने गन्तव्यतायां निमित्तमाह-व्यस प्रणम्य। दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः ॥ १ ॥ तमिति । मातृदुःखदर्शनात् शोकसम्मूढः ॥ २ ॥ अन्वक्षमिति । भ्रातुः अन्वक्षम् अनुप दम् ॥ ३ ॥ ४ ॥ सृष्ट इति । सुहृज्जने अत्रत्यसुहृज्जने । स्वनुरक्तोपि त्वं मया वनवासाय सृष्टः अनुमतः स त्वं गच्छेति भ्रातरि रामे प्रमादं मा कार्षीः रामसेवाया मनवधानतां मा कुर्वित्यर्यः ॥ ५ ॥ कनिष्ठस्य ज्येष्ठानुवर्तनं परमधर्म इत्युपदिशन्त्याह-व्यसनीति । राज्याद्यभावे व्यसनी वा राज्यमास्या समृद्धो वा एष रामः स॰-शोकसंमूढः शोकेन संमोहयति वैचित्यं प्रापयति जनानिति वा । शोकयतीति शोकः । सम्मूढ इत्यत्राप्यैवम् । ततः कर्मधारय इति वा ॥ २ ॥ भ्रातुः समस्य । अन्वक्षं प्रत्यक्षम् अनुपदं वा || २ ||
For Private And Personal Use Only
टी.अ.कां.
स० [४०]
॥ १३९ ॥