________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ता इति । तथैवार्त्ताः कौसल्येव दुःखिताः ॥ ३७ ॥ संवासादिति । संवासात् एकत्र सहवासात् चिरपरिचयादित्यर्थः । समनुजानीत क्षान्त | मित्यनुज्ञां कुरुतेत्यर्थः । आमन्त्रयामि आपृच्छामि ॥३८॥ वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थः ॥ ३९ ॥ ४० ॥ सुरजपणवेति । सुरजपणवा
ताश्चापि स तथैवार्ता मातृर्दशरथात्मजः । धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥ संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् । तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३८ ॥ वचनं राघवस्यैतद्धर्मयुक्तं समा हितम् । शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ ३९ ॥ जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः । मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ ४० ॥ मुरज्पणवमेघघोषवदशरथवेश्म बभूव यत् पुरा । विलपितपरि देवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥४१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये० एकोनचत्वारिंशः सर्गः ॥३९॥ अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ १ ॥
५६
Acharya Shri Kailassagarsuri Gyanmandin
एव मेघास्तेषां घोषास्तद्वत् । यद्वा सुरजादिसहपाठात् मेघोपि वाद्यविशेषः। सुरजश्च पणवश्च मेघश्च मुरजपणवमेघम्। “द्वन्द्वश्व प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भावः । तद्घोषवत् । विठपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदन शब्दः तेनाकुलम् । व्यसनगतम् आपद्गतम् अतएव दुःखितमभूत् ॥ ४१ ॥ इति श्रीगो० श्रीरा• पीता० अयो० एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथेति । रामः, त्रयश्शतशतार्थाः मातरो मातृः । अवेक्ष्य विविच्य ददर्श ॥ ३६ ॥ ताचेति । ताश्चापि मातरोपि तं रामं तथैव ददृशुरिति विपरिणामः । अथ दशरथा त्मजः आर्ताः मातुः इदं जगादेत्यन्वयः ॥ ३७ ॥ संवासात एकत्र सहवासात् । किञ्चित्परुषमुक्तम् अज्ञानाद्वापि यत्कृतं तन्मे समनुजानीत, क्षान्तमित्यनुज्ञां कुरुते त्यर्थः ॥ ३८ ॥ वचनमिति । समाहितं समीचीनार्थयुक्तम् ॥ ३९॥४०॥ मुरजेति । मुरजाश्च पणवा मेघाश्व मुरजपणवमेघम् । द्वन्द्वैकवद्भावः । मेघो वाद्यविशेषः । तदोषवत् विलपितपरिदेवनाकुलम् विविधानि लपितानि रामगुण कैकेयी दुर्गुणप्रतिपादकवाक्यानि यस्मिन् तद्विलपितम् । परिदेवनं रोदनम् तेन आकुलम् ॥४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ अथेति उपसङ्गृह्य पादग्रहणपूर्वकं
For Private And Personal Use Only