________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स्थूणानिखननन्यायेन पातिव्रत्यदृढीकरणार्थमसतीनां स्वभावमुक्त्वा सतीनां स्वभावमाह-साध्वीनामिति । शीले कुलोचितचरित्रे ।श्रुते गुरुजनकृतो। पदेशे। शमें शान्तौ च स्थितानां साध्वीनां पतिव्रतानां स्त्रीणां । परमं पवित्रं परमं पावनम् । पतिरेकः पतिरेव । विशिष्यते उत्कृष्टो भवति ॥२४॥स इति । स्पष्टम् ॥२५॥ विज्ञायेति । धर्मार्थसंहितं धर्मरूपप्रयोजनसहितम् । अभिमुखे अग्र इत्यर्थः॥२६॥ करिष्य इति।भर्तुः भर्तरि विषये । वर्तितव्यं शुश्रृषि
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे। स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥२४॥ स त्वया नावमन्तव्यः पुत्रः प्रवाजितो मम। तव दैवतमस्त्वेष निर्द्धनः सधनोपि वा ॥ २५॥ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ २६ ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञास्मि यथा भर्तुवर्तितव्यं श्रुतं च मे ॥२७॥ न मामसज्जनेनार्या समानयितुमर्हति। धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥२८॥नातन्त्री वाद्यते वीणा नाचको वर्तते रथः। नापतिः सुखमेधेत या स्यादपि शतात्मजा
॥२९॥ मितं ददाति हि पिता मितंमाता मितं सुतः। अमितस्य हि दातारं भर्तारंकान पूजयेत् ॥ ३०॥ तव्यम् । मे मया । श्रुतं च मातापितृभ्यामितिशेषः ॥ २७॥ नेति । समानयितुं समानां कर्तुम् । नालम् अक्षमेत्यर्थः ॥२८॥ नातन्वीति । तन्त्री वीणासिरा । शतात्मजा पुत्रशतवती ॥२९॥ मितामिति । मितम् अल्पम् । ऐहिकमात्रमित्यर्थः। अमितस्य ऐहिकामुष्मिकफलस्य ॥३०॥
कत्ये मोहात्प्रवर्तन्त इत्यर्थः । कुत एवमत्त आह अनित्यहृदया हिताः, अव्यवस्थितचित्ता इत्यर्थः ॥२३॥ साध्वीनामिति । साध्वीनां पतिव्रतानाम् । श्रुते गुरुजनो पदेशे स्थिते स्वकुलोचितमर्यादावस्थाने (एतत्पक्षे-श्रुते स्थिते इति पाठः) स्थिताना स्त्रीणां परमं परमसुखसाधनम् पतिरेक एव, अतः पतिरेव खीणां सर्वसाध
यो विशिष्यते ॥ २४ ॥ ततः किमत आह-स इति । एष रामः ॥२५॥२६॥ करिष्य इति । भर्तुः भर्तरि विषये यथा वर्तितव्यं तथा मे मया श्रुतम्, मन्माता पितृभ्यां चेति शेषः ॥२७॥ न मामिति । असज्जनेन समानयितुं समतया विचारयितुं नाहमलं न समर्था ॥ २८ ॥ नेति । शतात्मजेति बहुव्रीहिः ॥ २९ ॥ मित
For Private And Personal Use Only