________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रयतमानाया इत्यन्वयः ॥ ७ ॥ ८ ॥ संज्ञां विति । नेत्राभ्यामित्युपलक्षणे तृतीया ||९|| औपवाह्यमिति । औपवाह्यम् उपवहनमात्र योग्यम्, युद्धानह मित्यर्थः । राजयोग्यमिति वार्थः । युक्तत्वा योजयित्वा ॥ १० ॥ एवमिति । गुणवतां पुंसां सम्बन्धिगुणानां फलं यदुच्यते तत् एवमेवंविधम् । मन्ये अननु रूपं मन्ये । एवंशब्दार्थमाहू पित्रेति । यस्मात्साधुर्वीरः पित्रा मात्रा च वनं प्रति निर्वास्यते अतो गुणा नार्जनीया एवेति भावः ॥ ११ ॥ राज्ञ इति । शीघ्र संज्ञां तु प्रतिलभ्यैव मुहूर्त्तात् स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयेनं महाभागमितो जनपदात्परम् ॥ १० ॥ एवं मन्ये गुणवतां गुणानां फल मुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ ११ ॥ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वाssain तत्र रथमश्वैरलंकृतम् ॥ १२ ॥ तं रथं राजपुत्राय सूतः कनकभूषितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥ राजा सत्वरमाहूय व्याष्टतं वित्तसञ्चये । उवाच देशकालज्ञ निश्चितं सर्वतः शुचिम् ॥ १४ ॥ वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥ १५ ॥ नरे न्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत सर्वमाहृत्य सीतायै सममेव तत् ॥ १५ ॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥
विक्रमः शीघ्रपदविक्षेपः । योजयित्वाययावित्यत्र आययाविति पदच्छेदः ॥ ३२ ॥ १३ ॥ राजेति । वित्तसञ्चये कोशगृहे । व्यापृतम् अध्यक्षत्वेन व्यापृतम्, धनाध्यक्ष मित्यर्थः । निश्चितं यावदवस्थित तत्तद्वस्तुविषयनिश्चितज्ञानवन्तम् । शुचिं बाह्यान्तरशुद्धियुक्तम् ॥१४॥ वासांसीति । वर्षाण्येतानि सङ्ख्याय गणयित्वा चतुर्दशवर्षपर्याप्तान्यानयेत्यर्थः ॥ १५ ॥ नरेन्द्रेणेति । प्रायच्छत्, कोशाध्यक्ष इति शेषः । समं युगपत् तत्सर्वमित्यन्वयः ॥ १६ ॥ सुजाता सुजन्मा, अयोनिजेतियावत् । सुजातानि " समः समविभक्ताङ्गः " इतिवत्सामुद्रिकोक्तलक्षणवत्तया उत्पन्नानि ॥ १७ ॥
ॐ क्लिश्यत इत्यन्वयः ॥ ५ ॥ ८ ॥ संज्ञामिति । नेत्राभ्यामुपलक्षितः ॥ ९ ॥ औपवाह्यमुपवाहन मात्रोपयुक्तम्, युद्धानमित्यर्थः ॥ १० ॥ एवमिति । साधुः वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेव गुणवतां नृणां गुणानां फलमुच्यते शास्त्रेणेति भन्य इति दुःखातिशयोक्तिः ॥ ११ ॥ १२ ॥ तमिति । रथमाचचक्षे रथ उपस्थित इत्युक्तवान् ॥ १३ ॥ राजेति । सर्वतः शुचिम इहामुत्रानृणम्। वित्तसञ्चये कोशगृहे । व्यापृतं धनाध्यक्षं निश्चितं यावदवस्थितं वस्तु तद्विषयकज्ञान युक्तम् ॥ १४ ॥ वासांसीति । एतानि वर्षाणि चतुर्दशवर्षाणि ||१५|| नरेन्द्रेणेति । समम् एकदेव प्रायच्छत् धनाध्यक्ष इति शेषः ॥ १६ ॥ सेति । सुजाता अयोनिजा,
י
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only