________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
12351
इमामिति । जातगधिनी पुत्रदर्शनकांक्षिणीमित्यर्थः। न्यस्य त्यक्त्वा ॥ १८॥ इति श्रीगोविन्द श्रीरा० पीता. अयो• अष्टत्रिंशः सर्गः॥३८॥ टी.अ.का. रामस्येति । विगतचेतनः अभूदितिशेषः ॥ १-३॥ विवत्साः धेनव इतिशेषः। उपस्थितमित्यत्रेतिकरणं द्रष्टव्यम् । इतिमन्य इत्यन्वयः ॥४॥ नेति । इमां महेन्द्रोपम जातगर्धिनी तथा विधातुं जननी ममार्हसि । यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डेऽष्टत्रिंशः सर्गः ॥३८॥ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभी राजा विगतचेतनः॥१॥ नैनं दुःखेन सन्तप्तः प्रत्यवेक्षत राघवम् । न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥२॥ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः। विललाप महावाहू राममेवानुचिन्तयन् ॥३॥ मन्ये खलु मया पूर्व विवत्सा बहवः कृताः। प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ ४॥ न त्वेवानागते काले देहाच्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥५॥ योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् । विहाय वसने मूक्ष्मे तापसाच्छादमात्मजम् ॥६॥ एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यतेजनः। स्वार्थे प्रयतमानायाः संश्रित्य निकृति विमाम् ॥७॥ एवमुक्त्वा
तु वचनं बाष्पण पिहितेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहतु न शशाक ह॥८॥ काले देहारम्भकका नाशकाले ॥५॥६॥ एकस्या इति । निकृतिः शाव्यम् “ कुमृतिनिकृतिः शाठ्यम् " इत्यमरः । निकृति संश्रित्य स्वार्थे । इमामिति । जातगर्दिनीं पुत्रदर्शनकाशिणीम् । न्यस्य त्यक्त्वा ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम अष्टत्रिंशः सर्गः ॥ ३८ ॥ रामस्येति । विगतचेतना, अभूदिति शेषः॥ १-४ ॥ कैकेय्या विश्यमानस्यापि मम यतो मृत्युन विद्यते तत्प्राप्तिर्न विद्यते, अतः काले ॥१६॥ अनागते देहाजीवितं न च्यवत्येव ॥५॥ य इति । आच्छाद्यतेऽनेनेत्याच्छादः । तापसानामाच्छादो यस्य स तथा । एवम्भूतमात्मजं योऽहं पश्यामि तस्य मे मृत्युन । विद्यत इति पूर्वेणान्वयः ॥६॥ एकस्या इति । इमां निकृति वरलक्षणशाठ्यम् । संश्रित्य आश्रित्य । स्वार्थे प्रयतमानायाः कैकेय्याः कृते कैकेयीनिमित्तं अयं जनः
For Private And Personal Use Only