SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie तदिति । मया प्रतिज्ञातमतिक्रम्य । निरयं नरकं गन्तुमिच्छसि । कुतः ? हि यस्मात् या त्वं मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि ॥ १२॥१३॥ एवमिति । सम्पस्थितः गन्तुमुद्यतः॥१४॥ इयमित्यादि । प्रपत्रां प्राप्ताम् । भूयः अतिशयेन । सम्मन्तुं सम्मानयितुम् । ज्येष्ठपत्नीत्वेन पूर्वमेव सम्मा निता । अद्य विशेषेण मद्याच्भयेतिभावः ॥ १५ ॥१६॥ पुत्रशोकमिति । पुत्रशोकं यथा नच्छेत्तथा संमन्तुमर्हसीति पूर्वेण सम्बन्धः । यद्वा उत्तरेणे तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि । मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ १२ ॥ इतीव राजा विपलन् महात्मा शोकस्य नान्तं स ददर्श किंचित् । भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमनः ॥ १३॥ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् । अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ १४॥ इयं धार्मिक कौसल्या मम माता यशस्विनी । वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ १५॥ मया विहीनां वरद प्रपन्ना शोकसागरम् । अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ १६ ॥ पुत्रशोकं यथा न→त्त्वया पूज्येन पूजिता । मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी॥ १७॥ वान्वयः । मां सञ्चिन्तयन्तीयं तपस्विनी अपिजीवेत् यदि जीवेत्तदा त्वया पूजिता सती पुत्रशोकं यथा नच्छेन गच्छेत्तथा कुर्वित्यर्थः । न मच्छोकाद्यथा नश्येत्तथा त्वया पूज्येन पूजिता। मां हि सञ्चिन्तयन्तीयं त्वयि जीवेत्तपस्विनी इत्यपि पाठः। पूर्वार्द्धस्य पूर्वेणान्वयः । त्वयि विषये जीवेद मां चिन्तयन्त्यपि त्वदुपलालनेन जीवेदित्यर्थः। यद्वा मां सञ्चिन्तयन्ती मच्छोकाद्यथा न नश्येत्तथा त्वया पूजीता। त्वयिजीवेदित्येकं वाक्यम्॥१७॥ एतत् मत्प्रवृत्तरामविवासनमप्यतिक्रम्य अधिकप्रवृत्त्या निरयं गन्तुमिच्छसि । को नाम तदतिक्रम इत्यत आह मैथिलीमिति । या त्वं । हि यस्मात् मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि तस्मानिरय गन्तुमिच्छसीति सम्बन्धः ॥ १२ ॥ १३ ॥ एवं बुवन्तं सीता यथासुखं गच्छत्विति वन्तं । संप्रस्थितः गन्तुं प्रवृत्तः ॥ १४ ॥ १५॥ मयेति । प्रधानपत्नीत्वेन भूयोप्यधिकं संमन्तुं संमानं कर्तुम् ॥ १६॥ पुत्रशोकमिति । या कौसल्या मयि बनं गते सतीति शेषः। मां सञ्चिन्त यन्ती पुत्रशोकं यथा नच्छेत् न प्राप्नुयात् यथा जीवेत् तथा सम्मन्तुमर्हसीति पूर्वेण सम्बन्धः ॥ १७ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy