________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
विधानः भृङ्गाराद्युपकरणः ॥३६॥ तस्मिन्निति । प्रतिकारकामा प्रतिकारं सदृशकरणं कामयमाना, भर्तृसदृशतया वनवासकरणमिच्छन्तीत्यर्थः।। विनिवृत्तभावा चीरपरिधानादिनिवृत्तभावा न बभूवेति ॥ ३७॥ इति श्रीगोविन्दराज श्रीरामा पीता• अयोध्याकाण्ड• सप्तत्रिंशः सर्गः ॥ ३७॥
तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे । नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकार . कामा ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥१॥ तेन तत्र प्रणा देन दुःखितः स महीपतिः। चिच्छेद जीविते श्रद्धा धर्मे यशसि चात्मनः ॥ २॥ स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ ३ ॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ४॥ इयं हि कस्यापकरोति किंचित् तपस्विनी राजवरस्य कन्या। या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्री वनं समया सह सर्वरत्नैः ॥६॥ तस्यामित्यादि । त्वां धिगिति दशरथं चुक्रोशेत्यर्थः॥१॥तेनेति । श्रद्धाम् आदरम् ॥२-४॥ इयमिति । तपस्विनी पातिव्रत्यत्तपोयुक्ता । विसंज्ञा मुग्धा । श्रमणीव तपस्विनीव । “श्रमु तपसि खेदे च" इति धातुः॥५॥ चीराणीति । अपास्यात् त्यजतु । इयं प्रतिज्ञा सीतायाश्चीरधारणपूर्वकवन तस्मिन्निति । प्रतिकारकामा प्रतिकारोऽनुकारः भर्तुस्तपोवेषादिभिरनुकारं कामयमाना विनिवृत्तभावा नैव स्म, वनगमनानिवृत्तभावा न बभूवैवेत्यर्थः ॥ ३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाषणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो सप्तत्रिंशः सर्गः ॥३७॥१-४॥ इयमिति । श्रमणी तपस्विनी, " श्रमु तपसि खेदे च" इति धातुः॥५॥ चीराणीति । अपास्यात् त्यजतु, मम मया न दत्तपूर्वा नानुमतपूर्वा ॥६॥
स०-कारः आकारः । न पारच्छेदकार्यवेत्यनुयाख्या व्याख्यासुधायाँ तथा व्याख्यानात् । कारस्य रामाकारस्य प्रति प्रतिकारम् । चीरधारणादिना रामाकारतादृश्य कारपतीति तथा ॥ १७ ॥ समग्रा रामार्धाङ्गत्वाद्रामेण सह वनगमने समनत्व सेत्स्यति ॥ ६ ॥
For Private And Personal Use Only