________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. ॥१३॥
टी.अ.कां.
स०३७
परिकरयुक्तम् ॥२६-२९ ॥ नेति । अदत्ता प्रीतिपूर्वकमदत्ताम् ॥३० ॥ ३१॥ तदिति। पुत्रदिन्या पुत्रविषयनेहयुक्तया ॥३२॥ द्रक्ष्यसीति । पादपश्चि तदुन्मुखानिति वृक्षाणां तदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वम् । तथोपरिष्टात् स्पष्टीभविष्यति “अपिवृक्षाः परिम्लानाः सपुष्पाकुर । तदनं भविताराष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥ न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति । त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३०॥ यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि। पितृवंशचरित्रज्ञः सोऽन्यथा न करि ष्यति ॥ ३१॥ तत्त्वया पुत्रगर्दिन्या पुत्रस्य कृतमप्रियम् । लोके हिन स विद्येत यो न राममनुव्रतः॥ ३२ ॥ द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् । गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥३३॥ अथोत्तमान्याभर णानि देवि देहि स्नुषायै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्रसनं वसिष्ठः ॥३४॥ एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि। विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ ३५॥ यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री। वस्त्रैश्च सर्वेः सहितैविधानैर्नेयं वृता ते वरसम्प्रदाने ॥३६॥
कोरकाः।" इति ॥ ३३ ॥ एवं वसिष्टो भाव्यर्थमुक्त्वा प्रकृतमाह-अर्थत्यादि । व्यपनीय निरस्य। प्रविधीयत इतीति वक्तव्य प्रविधीयतेति सन्धि रापः ॥ ३४॥ न प्रविधीयत इत्येतदुपपादयति-एकस्येति । प्रतिकर्मनित्या अलङ्कारनियता । नित्यमलङ्करणयोग्येत्यर्थः ॥ ३५॥ यानेरिति । न हीति । अदत्ता प्रीतिपूर्वकमदत्ता शास्तुं नाहति । त्वयि वा स्वपितृनाशिकायाम् । इतःपरं पुत्रबद्वस्तुं नाहतीत्यनुकर्षः। कुतः १ महीपतेर्दशरथाज्जातो यदि
पितृन समनुजायन्ते नराः" इति न्यायादित्याशयः ॥ ३० ॥ पितृवंशचरित्रं ज्येष्ठे जीवति कनिष्ठस्य राज्यानहत्यम् ॥३१॥ तदिति । पुत्रगर्द्धिन्या पुत्रवत्सलया ॥३२-३४॥ एकस्येति । प्रतिकर्मनित्या प्रतिकर्म अलङ्कारव्यापारः स नित्यो यस्यास्सा तथा ॥३५॥ विधानः उपकरणेः ॥ ३६॥ सम्-राम बिना य न स्थास्यतीत्ययाह-विभूषितेति । विभौ परमात्मनि उपिता तरक्षस्थलाश्रिता ॥ २५ ॥
॥१३॥
For Private And Personal Use Only