SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भ. ॥१३॥ स. ३७ सेति । व्यपत्रपमाणा विशेषेण लजमाना । कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे । धर्मज्ञा पातिव्रत्यधर्मज्ञा । धर्मदार्शनी स्वानुष्ठानेन पाति .अ.का. बत्यधर्मप्रदर्शिनी । बधन्तीतीदमब्रवीदिति सम्बन्धः ॥ १०॥११॥ कथमिति । मुमोद स्तब्धा बभूवेत्यर्थः ॥ १२॥ तदेव विवृणोति-कृत्वेति । सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ १०॥ अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११॥ कथं नु चीरं बभ्रन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥ कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना । तस्थौ ह्यकुशला तत्र वीडिता जनकात्मजा ॥ १३॥ तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशेयस्यो परि स्वयम् ॥ १४ ॥ रामं प्रेक्ष्य तु सीताया बधन्तं चीरमुत्तमम् । अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५॥ ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् । वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् । तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ १७ ॥ लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक। नेयमर्हति कल्याणी वस्तुं तापसवरने ॥ १८ ॥ कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी । धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ १९॥ Ku3३-१५। ऊचुरिति । एवं त्वमिव इयं सीता वनवासे न नियुक्तेति, पित्रेतियावत् ॥१६॥ पितुरिति । तावत् तवागमनपर्यन्तम् । पितुर्वाक्यानुरोधेन विजनं वनं गतस्य तव दर्शनम् । अस्यां सफलं भवतु, त्वामिनां द्रक्ष्याम इति भावः ॥ १७-१९॥ सेति । सुदुर्मनाः भर्नुरीहशं वल्कलं प्राप्तमिति । अत एवाश्रुसंपूर्णनेवा, कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे ॥ १०-१५ ॥ ऊचुरिति । एवं तद्वत इयं न नियुक्ता ॥१६॥ पितुरिति । वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीतायाः दर्शनं तावत त्वदागमनपर्यन्तम् । नः अस्माकम् सफलं त्वदर्शनं यथा आनन्दकर तथा भवन्वित्यर्थः। अथवा अस्या दर्शनं दर्शनेन नः अस्माकं जीवितं सफलं भवत्विति वार्थः । गतस्येति सप्तम्यर्थे षष्ठी । स्वपि गते सतीत्यर्थः ॥ १७-१९॥ 1॥१३॥ वि० विजनं वनं गतस्य बादाम तावदम्पा दर्शन नोऽस्तु । तेन च नो जीवन सफल भवतु ॥ १७॥ स०-सहायेन सहायभूतेन लक्ष्मणेन सह अयेन शुभाबहारन । गच्छेति वा । स्वपुत्रक पुत्रोन भवनीत्यपुत्रः सुषु अपुत्रः मपुत्रः समक्षानः सपुत्रकः । " अज्ञाते क " ज्युक्तः । स्वपुत्रश्वासौ कश्चेति वा । को विष्णुः । गमनानुमतिसूचकपदव्यत्यासोपेतं गच्छस्पेत्येक वा पदम् ॥ १८ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy