SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir महामात्रेत्यादि । महामात्रवचः सिद्धार्थवचः। विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ १॥ त्यक्तभोगस्यति । अनुयात्रेण अनुगत काबलेन । भोगत्यागेपि सङ्गो वर्तते लौकिकानां, सोपि नास्तीत्याह त्यक्तसङ्गस्य सर्वत इति॥२॥ य इति । कक्ष्यायाम इभबन्धनरजौ“कक्ष्या प्रकोष्टे । हादौ काभ्यां मध्यभबन्धन " इत्यमरः ॥३॥ तथेति । ध्वजिन्या सेनया। सर्वाणि त्वया मह्यं दातुमुधुक्तानि । अनुजानामि प्रददामि । भरतायेति महामात्रवचः अमा रामो दशरथं तदा। अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १॥ त्यक्तभोगस्य मे राजन वने वन्येन जीवतः । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥२॥ यो हि दत्त्वा गजश्रेष्टं कक्ष्यायां कुरुते मनः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥३॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्यवानुजानामि चीराण्येवानयन्तु मे ॥ ४॥ खनित्रपिटके चोभे समानयत गच्छत । चतुर्दश वने वासं वर्षाणि वसतो मम ॥५॥ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्स्वति जनौघे निरपत्रपा ॥६॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते। सूक्ष्मवत्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ॥७॥लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः ॥८॥ अथात्मपरिधानार्थ सीता कौशेय वासिनी । समीक्ष्य चीरं सन्त्रस्ता एषती वागुरामिव ॥९॥ शेषः । सर्वाणि कार्याणि सम्यक्जानामीतिवार्थः । चीराणि वल्कलवस्त्राणि । आनयन्तु परिचारका इति शेपः ॥ ४॥ खनित्रपिटकेति । खनित्र पिटके खनित्रम् अवदारणम्, पिटकम् अल्पार्थे कन्प्रत्ययः। फलमूलाधाहरणयोग्याल्पकण्डोलः । "कण्डोलपिटो" इत्यमरः । वासं वसतः वासं कुर्वत इत्यर्थः ॥५॥६॥ स इति । स रामः कैकेय्यास्सकाशात् मुनिवस्त्राणि परिगृह्य तेषु द्वे चीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमवक्षिप्य | अवस्तह, आदीधरदित्यर्थः ॥७॥८॥ अथेति । सन्त्रस्ता, अभवदितिशेषः। पृषती मृगी। वागुरां मृगवन्धनम् “वागुरा मृगवन्धनी" इत्यमरः ॥९॥ महामात्रेति । महामात्रवचः सिद्धार्थवचः ॥१॥ त्यक्तेति । अनुयात्रेण अनुगतबलेन ॥ २ ॥ असङ्गतचायमनुयाचप्रम्थापनबाद इत्याह-यो हीति । कक्ष्यायां गजवन्धनरजौ॥ ३ ॥ तथेति । सर्वाणि वस्तूनि । भरतायैव अनुजानामि मातुः प्रीतये प्रददामि अतः चीराण्येव वल्कलवखाण्येव ॥ ४ ॥ खनित्रपिटके खनित्रमव दारणम, खननसाधनमित्यर्थः । पिटकं कन्दमूलाद्याहरणयोग्यं कण्डोलम ॥५॥६॥ म इति । म गमः त्रयाणामानीनानि मुनिवस्त्राणि चीराणि कैकेय्याः! प्रतिगृह्य सक्ष्मवस्खमवक्षिप्य नेषु दे चीर स्वयम अबस्त धृतवान ॥ ७॥८॥ अथेति । पूषनी मगी ॥९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy