________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू./पिटका तद्धारणपात्रम् । एकवद्भावः । गृह्य गृहीत्वा । अलोलयत कन्दमूलाद्यर्थम् अखनदित्यर्थः। यथा पापकृत्तथाचरन् अकोलयदित्यन्वयः ॥२५॥ी . को ॥१३२॥ लाइतीति । उपरुध्यते विवास्यते ॥२६॥ न हीति । निरयः निरयहेतुभूतो दोषः॥२७-२९॥ तदिति । विहतया श्रिया अलम् अभिषेकविधातं मा कुर्वित्यर्थः
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः। रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥ न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २७॥ अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे । तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ २८ ॥ अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युर्ति धर्मनिरोधनात् ॥ २९॥ तदलं देवि रामस्य श्रिया विहतया त्वया । लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ ३०॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः । शोकोप हतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥ एतद्रचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा । आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ ३२॥ अनुवजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च । सहैव राज्ञा भरतेन च त्वं यथासुखं भुव चिराय राज्यम् ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये
आदिकाव्ये श्रीमदयोध्याकाण्डे षडत्रिंशः सर्गः ॥ ३६॥ साक्ष्यः परिहरणीयः । परिवादः निन्दा ॥ ३० ॥ श्रुत्वेति । श्रान्ततरः हीनतरः ॥३१॥ एतदिति। एतद्वचः सिद्धार्थवचः। कृपणं कुत्सितमित्यर्थः ।
"कदयें कृपणक्षुद्र " इत्यमरः । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ॥ ३२ ॥ ३३॥ इति श्रीगो• श्रीरा० पीता. अयो० पत्रिंशः सर्गः॥३६ ॥ कन्दाद्यर्थम् अनुचरन्नतिष्ठत ॥ २५ ॥ २६ ॥ नहीति । अगुणं दोषम् । निरयः दुःखम् । कल्मषं मालिन्यम् ॥ २७-२९ ॥ तदिति । त्वया विहतया रामस्य श्रिया ॥१३२॥ ते न किश्चित्फलम्, तदलं वृथाश्रमेण । हि यस्मात लोकतः प्राप्तः परिवादः रक्ष्यः परिहार्यः ॥ ३०॥ ३१ ॥ एतदिति । कृपणं मार्गमास्थाय या कुचेष्टा कृता ते त्वया सेयं चेष्टा साधुपयादपेता हीति सम्बन्धः ॥३२॥३३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकारूपायो अयोध्याकाण्डव्याख्यार्या षटत्रिंशः सर्गः॥३६॥
For Private And Personal Use Only