________________
Shri Maharan Aradhana Kendra
www.kabatuth.org
Acharya Shri Kalassagarsur Gyarmandie
IN
मिच्छामि ॥ १९॥२०॥ मातेति । जीव वा मावेत्यनेन कैकेयीमातुः पतिप्रीत्वमुक्तम् ॥२१॥ प्रिययेति । वरदाय तत्त्वतः कथयामास । अत्यन्त सङ्कटेपि विमृश्यकारी सन् वरदाय कथयामासेत्यर्थः ॥२२॥ तत इति । वंसतां स्वाधिकारात् प्रच्युता स्यात् ॥ २३ ॥२१॥ उक्तमर्थ प्रकृते निग
माता ते पितरं देवि ततः केकयमब्रवीत् । शंस मे जीव वा मा वा न मामपहसिष्यसि ॥२१॥ प्रियया च तथोक्तः सन् केकयः पृथिवीपतिः। तस्मैतं वरदायार्थ कथयामास तत्त्वतः ॥२२॥ ततः स वरदः साधू राजानं प्रत्य भाषत। म्रियतां ध्वंसता वेयं मा कृथास्त्वं महीपते ॥ २३॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः । मातरं
ते निरस्याशु विजहार कुबेरवत् ॥ २४ ॥ तथा त्वमपि राजानं दुर्जनाचरिते पथि । असदाहमिमं मोहात् कुरुषे | पापदर्शिनि ॥२५॥ सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा । पितृन समनुजायन्ते नरा मातरमङ्गनाः
॥२६॥ नैवं भव गृहाणेदं यदाह वसुधाधिपः। भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥२७॥ मयति-तथेति । दुर्जनाचरिते पथि । स्थितेतिशेषः । असदाहम् असदाभिनिवेशम् ॥२५॥ सत्य इति । सत्यइति मा मां प्रतिभातीत्यन्वयः। SI"अभितः परितः-" इत्यादिना प्रतियोगे द्वितीया । पितृन् समनुजायन्ते । अत्र इतिकरणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्थः । अङ्गनाः पुत्र्यः। nou२६॥ नेति । नैवं भवेतिपाठः । नेया भवेति पाठे-नेया नेतुं योग्या। विधेया भवेत्यर्थः । वसुधाधिपः यदाह "श्व एव पुष्यो भविता श्वोऽभिषिच्येत
मिति शेषः ॥ २० ॥ मातेति । जीव वा, मा वा नियस्व वा । हासकारणं मे शंस, तर्हि मा नापहसिष्यसीति ज्ञास्यामीत्यर्थः ॥ २१ ॥ प्रिययेति । वरदाय स्वस्प वरप्रदात्रे योगिने । तमर्थ तयोक्तनिर्वन्धवचनम् । तत्त्वतः याथान ॥ २२ ॥ तत इति । इयं नियतां ध्वंसता निगृह्य निरस्पता वा असदाहिण्यास्तस्या वचो मा कृथा इति प्रत्यभाषत ॥ २३ ॥ २४ ॥ तयेति । तथा मातृवत दुर्जनाचरिते पधि, स्थितेति शेषः । इमं राजानम् । असद्भाहम् असत्कार्यवाहकं कुरुषे ॥२५॥ सत्य इति । समनुजायन्त इत्यत्र इतिकरणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्गः ॥२६॥ नेयेति । नेया नेतुं योग्या, विधेयेत्यर्थः । वसुधाधिपो यदाह श्वो रामोऽअभिपेच्य इति यद्वचनमाह इदं गृहाण । नेवं भवेति पाठे-एवं मातृक्दसत्कार्याभिनिवेशिनी न भव । अन्यत्समानम् ॥ २७ ॥ स०-निषता विषपानादिना | सतां शस्त्रादिना । माकृथाः, एतदुक्तमिति शेषः ॥ २३ ॥
१ प्रत्यभापच । यदि त्यं शंससे राजन् मरणं ते ध्रुवं भवेन् । इत्यधिकः पाठः ।
For Private And Personal Use Only