________________
www.kabatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
टी.अ.का.
बा.रा.भ. ॥१२९॥
स०३५
लौकिकवाक्यं निदर्शयति नहीति । क्षौद्रं मधु । स्रवदित्यत्र इतिकरणं बोध्यम् ॥ १५॥ कैकेय्याः पतिप्रीत्वस्वभावो मातृसम्बन्धप्रयुक्त इति प्रस्तावं कृत्वा तन्मातुर्वृत्तान्तं वक्तुमुपकमते-तव मातुरित्यादिना। असद्राहम् असदर्थाभिनिवेशम् । पूर्व यथा येनप्रकारेण श्रुतं तथा विद्मः ॥१६॥
तव मातुरसद्वाहं विद्मः पूर्व यथा श्रुतम् ॥१६॥ पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ।सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ १७॥ततो जृम्भस्य शयने विस्तारिवर्चसः। पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥१८॥ तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती। हासं ते नृपते सौम्य जिज्ञासामीति
चाब्रवीत् ॥१९॥ नृपश्चोवाच तां देवीं देवि शंसामि ते यदि । ततो मे मरणं सद्यो भविष्यति न संशयः ॥२०॥ पितुरिति । कश्चिद्योगी गन्धर्व इति श्रुतम् । तस्माद्वरदानात् रुतं शब्द “तिरश्वां वाशितं रुतम्" इत्यमरः । सञज्ञे सम्यक् ज्ञातवान् । तेन सर्व । भूतरुतज्ञेन राज्ञा। तिर्यग्गतानां तिर्यग्गमनानाम् ॥ १७॥ तत इति । जृम्भस्य पिपीलिकाविशेषस्य । शयने शयनसमीपे, पर्याधःप्रदेश इत्यर्थः । भूरिवर्चस इति पितुर्विशेषणम् । वरलाभेन अधिकतेजस इत्यर्थः । जृम्भविशेषणं वा तदा सुवर्णवर्चस इत्यर्थः। "सुवर्णेपि भूरि-"इत्यमरः । सःपिता तत्र रुते विषये बहुधा द्विखिः अहसत् ॥ १८॥ तत्रेति । तत्र हासविषये । कुद्धा मां परिहसतीति कुरा । हे नृप ! ते हासं हासनिमित्तम् । जिज्ञासामि ज्ञातु न्युक्त्वा मर्मवचनान्याह-आभिजात्यमिति । ते मातुः आभिजात्यं प्रशस्तमातापितृजन्मोचितव्यबहारवत्त्वरूपं यथा तथैव ते तव आभिजात्यमपि हि मन्य इति व्यङ्गयोक्तिः, कारणानुसारेण कार्य भवतीति भावः । तदेव दर्शयति नहीति । निम्बात क्षौद्रं न स्रवेदिति वचो लोके निगदितम्, लोके प्रसिद्धमेव किलेत्यर्थः (आभिजात्यमिति पाठः) ॥१५॥ ननु का मम मातुराभिजात्यक्षतिरित्यत्राह-तवेति । असदाहं घोरपापकर्माभिनिवेशम् । पूर्व यथा येन प्रकारेण श्रुतं तथा तत् संप्रति विद्मः ॥ १६ ॥ तद्वेदनमेव प्रतिपादयति-पितुरिति । कश्चिद्योगी बरं सर्वभूतरुतार्थविज्ञानविषयकम् । तस्मात् उक्तलक्षणवरदानबलात् । वसुधाधिपः सर्वभूतरुतं तत्प्रतिपाद्यभावजातं संजज्ञे जानीते स्म, तेन सर्वभूतरुतार्थज्ञेन राज्ञा । तिर्यग्गतानां पशुपक्ष्यादीनाम् ॥ १७ ॥ ततः किम् ? तबाह-तत इति । ततः वरप्रभावात् । शयने शयनकाले । भरिवर्चसः सुवर्णवर्चसः " स्वर्णेपि भूरि-" इत्यमरः । जुम्भस्य जृम्भाव्यस्य पाक्षगः पिपीलिकाविशेषस्य वा विरुतात स्वनात्सकाशात ते तव पितुः पित्रा भावः जृम्भस्याभिप्रायः विदितः । तत्र तदा । सः केकयः । बहुधा द्विखिः अहसदिति योजना ॥ १८॥ तत्रेति । तत्र तदा। मृत्युपाशमभीप्सती ते जननी अयं मां परिहसतीति क्रुद्धा सती नृपते ! ते हास हासकारणं जिज्ञासामीत्यत्रवीदित्यन्वयः ॥१९॥ नृप इति । शंसामि, हासकारण
॥१२९॥
For Private And Personal Use Only