________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
I
निखिलेन सर्वात्मना । अतस्त्वं सत्यः सत्यवचनो भव ॥ ४३ ॥ अहमिति । निदेशं शासनं "निदेशश्शासनम्" इत्यमरः । वनचरैः तप स्विभिः॥४४॥भव राजा निगृह्य मामित्यस्योत्तरमाह-मा विमर्श इति । मा विमर्शः विचारो माभूत् । आत्मनि मनसि । सुखं प्रियं वा उद्दिश्य। राज्यं न कांक्षितम्, अपि तु तव निदेशं तवाज्ञाम् । यथाकर्त्तमेव यथावत् कर्तुमेवेत्यर्थः।।४५-४७॥ त्वामहमिति । अहं त्वां सत्यं सत्ययुक्तमिच्छामि।।
अहं निदेशं भवतो यथोक्तमनुपालयन् । चतुर्दश समा वत्स्ये वने वनचरैः सह ॥४४॥ मा विमर्शो वसुमती भर ताय प्रदीयताम् । न हि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् । यथा निदेशं कर्तु वै तवैव रघुनन्दन ॥४५॥
अपगच्छतु ते दुःखं माभूर्बाष्पपरिप्लुतः। न हि क्षुभ्यति दुर्द्धर्षः समुद्रः सरितां पतिः ॥ ४६॥ नैवाहं राज्य मिच्छामिन सुखं न च मैथिलीम् । नैव सानिमान् कामान् न स्वर्ग नैव जीवितम् ॥४७॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यक्षं तव सत्येन सुकृतेन च तेशपे॥४८॥ न च शक्यं मया तात स्थातुंक्षणमपि प्रभो । न शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ॥४९॥ अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव । मया चोक्तं
बजामीति तत्सत्यमनुपालये ॥५०॥ अनृतम् अनृतयुक्तं नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदेवभूतस्य तव सन्निधौ । सत्येन सुकृतेन च । ते तुभ्यं शप इत्यन्वयः । “श्लाघकुस्था -" इत्या दिना चतुर्थी ।। १८ ॥नचेति । स्थातुम् । इह नगर इति शेषः । विपर्ययः संकल्पितवनगमनोद्योगनिवृत्तिः॥४९॥ न केवलं त्वदाज्ञापरिपालनार्थ अहमिति । वनचरैः तपस्विभिः । निदेशं शासनम् ॥४॥'भव राजा निगृह्य माम्' इत्यस्योत्तरमाह-मा विमर्श इति । मा विमर्शः विचारो मास्तु । कथमेवमत आह नहीति । आत्मनि मनसि, सुखं प्रियं वा उदिश्य राज्यं न कांक्षितम् अपि तु तव निदेशं तवाज्ञा यथाकर्तु यथावत्कर्तुमेवेत्यर्थः ॥४५-४७॥ त्वामहमिति । त्वां सत्यं सत्ययुक्तम् इच्छामि । अनुतम् अनृतयुक्तम् नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदेवभूतस्य तव सनिधो । सत्येन सुकृतेन च ते तुभ्यं शप जरते सम्बन्धः MIn४८ ॥ न चेति । विपर्ययः सङ्कल्पितवनगमनोद्योगनिवृत्तिः ॥ ४९ ॥५०॥
स-अहंराज्यम् अहङ्कारतवाभिमानिदराज्य, कैलासाधिपस्पमिति यावत् । " महतश्चतुर्मुखात " इति वदभिमान्यभिमानयोरेक्पव्यपदेशः । मुखं वरुणलोकम् "सुखं पुर्या प्रचेतसः" इति विश्वः । पामेदिनी भूलोकम् । कामान् काम्यान् धनादीन् ॥ १७ ॥ सत्यं सत्यभाषिणम् । त्यो नानृतम् अनन्तमाषिणम् । कर्तुमिच्छामि ॥ ४८॥
ब
For Private And Personal Use Only