SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा.रा.भू. मतवर्गान् ॥ ३५ ॥ नेति । छन्नया गूढाभिप्रायया । चलितः स्वाधीनत्वा चलनं प्राप्तः । (छुरितइति पाठान्तरे तु वञ्चित इत्यर्थः । छन्नाग्निकल्पया भस्म ॥ १२६ ॥ च्छन्नाङ्गारतुल्यया ॥ ३६ ॥ वञ्चनेति । या वञ्चचना सामान्येन प्रतिश्रुतयोर्वरयोर्भरताभिषेचनत्वद्विवासनरूपविशेषपर्यवसायित्वरूपा । मे मया लब्धा । न चैतन्मे प्रियं पुत्र शपे सत्येन राघव । छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥ ३६ ॥ वञ्चना या तु लब्धा मेतां त्वं निस्तर्तुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ ३७ ॥ न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ ३८ ॥ अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ ३९ ॥ प्राप्स्यामि यानद्य गुणान को मे श्वस्तान् प्रदा स्यति । उपक्रमणमेवातः सर्वकामैरहं वृणे ॥ ४० ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ॥ ४२ ॥ यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया । दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ ४३ ॥ तामपि वञ्चनां वृत्तसादिन्या कुठोचिताचारनाशिन्या अनया प्रचोदितस्त्वं निस्तर्तुमिच्छसि समापयितुमिच्छसेि । अहो ते गुण इति भावः ॥ ३७ ॥ नचेति । अपानृतकथम् अपगतासत्यवचनम् ॥ ३८ ॥ अथेति । भाषितम् एकादर्शनेनापीत्याद्युक्तम् । दीनः एकाहमपि पितृदर्शन सौख्यं न लब्धमिति दीनः ॥ ३९ ॥ तर्पितः सर्वकामैरित्यस्योत्तरमाह - प्राप्स्यामीति । गुणान् गुणविशिष्टाभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे, सर्वकामप्रति निधित्वेन अपक्रमणमेव वरय इत्यर्थः ॥ ४० ॥ इयमिति । विसृष्टा त्यक्ता ॥ ४१ ॥ वनवासेत्यर्द्धमेकं वाक्यम् ॥ ४२ ॥ य इति । अत्र स इत्यध्याहार्यः । नैच्छदिति । छन्नया गूढक्रूराभिप्रायया । चलितः भ्रंशितः, त्वदभिषेकमनोरथ इत्यर्थः ॥ ३६ ॥ वञ्चनेति । या वचना सामान्येन प्रतिश्रुतवरयोर्भरताभिषेकत्वद् विवासन विशेषपर्यवसायित्वरूपा, मे मया लब्धा । तां तु तामपि । वृत्तसादिन्या कुलोचितचरित्रनाशिन्या ॥ ३७ ॥ नेति । अपानृतकथम् अपगतासत्यवचनं कर्तुमिच्छसीति यत् नैतदाश्वर्यतमम्, यद्यस्मात् मे ज्येष्ठत इति योजना ॥ ३८ ॥ ३९ ॥ ' तर्पितस्सर्वकामैः' इत्युक्तस्योत्तरमाह-प्राप्स्यामीति । गुणान् अभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे सर्वकामप्रतिनिधित्वेन गमनमेव वरय इत्यर्थः ॥ ४०-४३ ।। For Private And Personal Use Only टी.अको स० ॥ १२६॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy