________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
नवेति । प्रतिज्ञान्ते प्रतिज्ञावसाने ॥ २९ ॥ रुदन्निति । मिथः रहसि । कैकेय्या चोद्यमानः अद्यैव प्रस्थापयेति प्रेर्यमाणः ॥ ३० ॥ श्रेयस इति । श्रेयसे पारलौकिकफलाय । वृद्धये ऐहिकफलाय । गच्छस्व गच्छ । अरिष्टं शुभम् " अरिष्टेति शुभाशुभे " इत्यमरः । अकुतोभयं कुतश्चिदपि । नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप् ॥ २९ ॥ रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः । कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ३० ॥ श्रेयसे वृद्धये तात पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव । विनिवर्त्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ ३२ ॥ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा । एकाहदर्शनेनापि साधु तावच्चराम्य हम् ॥ ३३ ॥ मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ ३४ ॥ दुष्करं क्रियते पुत्र सर्वथा राघव त्वया । मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ ३५ ॥
जन्तोर्भयरहितम् ॥ ३१ ॥ नेति । सत्यात्मनः सत्यस्वभावस्य । " आत्मा देहे धृतौ जीवे स्वभावे " इति वैजयन्ती । धर्माभिमनसः धर्माभि निविष्टमनसः ॥ ३२ ॥ अद्येति । अद्य अस्मिन् दिने इदानीम्, आसन्नामित्यर्थः । साधु सुखं चरामि वसामि ॥ ३३ ॥ मातरमिति | साधयिष्यसि गमिष्यसि । काले प्रातःकाले ॥ ३४ ॥ दुष्करमिति । मत्प्रियार्थं मम परलोकप्रियार्थमित्यर्थः । अन्यथा उत्तरश्लोकविरोधात् । प्रियान् अभि न कार्य:, तव नरकपातप्रसङ्गादित्याशयः ( कार्यस्त्वमानृतः इति पाठः ) ||२८||२९|| कैकेय्या मिथः रहसि चोद्यमानः, इदानीमेव रामं प्रेषयेति रहसि चोद्यमान इत्यर्थः ॥ ३०॥ श्रेयसे परलोकहिताय, बुद्धये इह लोकाभ्युदयाय च । अरिष्टं स्वस्त्ययनं ते अस्तु, अतः अव्यमस्तन अकुतोभयं पन्थानं गच्छस्व ॥ ३१॥ नहीति । सत्यात्मनः सत्यप्रतिष्ठितस्वभावस्य । धर्माभिमनसः धर्माभिनिविष्टमनसः ॥ ३२ ॥ अद्येति । अद्य अस्मिन् दिवसे । इदानीं प्रवृत्तां रजनीम् आवस सर्वथा मा गच्छ किमर्थम् ? एकाहेति । चरामि भोक्ष्यामि तावत् वर्ते च ॥ ३३ ॥ साधयिष्यसि गमिष्यसि ॥ ३४ ॥ दुष्करमिति । मत्प्रियार्थे मम परलोकहितार्थम् ॥ ३५ ॥
स० [प्रतिज्ञान्ते चतुर्दशवर्षानन्तरम् । स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायः । यथोक्तमत्रैवोत्तरत्र युद्धकाण्डे - "महादेववचः श्रुत्वा राघवस लक्ष्मणः । विमानशिखरस्थस्य प्रणाममकरोत्पितुः " इति । वित्येत्यनेन राक्षसहननादिकं मम विहार इति सूचयति ॥ २९ ॥
For Private And Personal Use Only