________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आविश्य प्राप्य ॥ १० ॥ निगुर्णस्यापीति । वृत्तन केवलं चरित्रमात्रेण । " वृत्तं पद्ये चरित्रे च" इत्यमरः । वृत्तेन केवलमित्युक्तिः दानमानादौ विद्य मानेपि चरित्रप्राधान्यात् ॥ ११ ॥ आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया “कृपा दयानुकम्पा स्यादनुक्रोशः " इत्यमरः । दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः । " शमश्चित्तप्रशान्तिः स्यादम इन्द्रियनिग्रहे " इति निर्वचनात् ॥ १२ ॥ तस्मादिति । तस्मात् पाडण्य
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् । किंपुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥ आनृशंस्य मनुक्रोशः श्रुतं शीलं दमः शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥ तस्मात्तस्योपघातेन प्रजाः परम पीडिताः । औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥ पीडया पीडितं सर्व जगदस्य जगत्पतेः । मूलस्ये वोपघातेन वृक्षः पुष्पफलोपगः ॥ १४ ॥ मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः । पुष्पं फलं च पत्रं च शाखाश्चास्ये तरे जनाः ॥ १५ ॥ ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥ युक्तत्वात् । तस्य रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवनानि । शैषिकोऽण् ॥१३॥ पीडयेति । अस्य जगत्पतेः रामस्य । पीडया विवा सनरूपया। पुष्पफलैरुपगमो यस्य स पुष्पफलोपगो वृक्ष इव" अन्येष्वपि दृश्यते " इतिडप्रत्ययः ॥ १४ ॥ मूलमिति । मनुष्याणां प्राणिनाम् । | उपलक्षणमेतत् । धर्म एव सारो यस्य सः धर्मसारः ॥ १५ ॥ त इति । ते वयं सपत्न्यः सपत्नीकाः। समासान्तविधेरनित्यत्वेन "नघृतश्च" इति कबभावः । येन प्राप्य भाषते ॥ १० ॥ निर्गुणस्येति । वृत्तेन केवलं चरित्रमात्रेण । पूर्वश्लोकपूर्वार्द्धमर्धान्तरेण व्याख्यायते अद्येति । अद्य वनगमनानुमतिसमये । सत्त्वं सत्त्वगुणम् । आविश्य प्राप्य । भाषते त्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः । कुतः १ नहि राजेति सार्धेन । अन्पत्समानम् ॥११॥ वृत्तमेवाह-आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया । श्रुतम् अनुष्ठानपर्यवसायिशास्त्राध्ययनम् अत एव शीलं सत्स्वभावः, दमः इन्द्रियनिग्रहः । शमः चित्तमशान्तिः ॥ १२ ॥ तस्मादिति । यस्मात्सर्वोत्तमः सकलकल्याणगुणाभिरामो रामः तस्मात् तस्य उपघातेन ईषद्धिंसनेन परमपीडिताः ॥ १३ ॥ किच जगत्पालकत्वजगज्जनकत्वादपि तस्योपघातेन जगत्पीडितमित्याह- पीडयेत्यादिश्लोकद्वयेन । पुष्पफलोपगः पुष्पफलान्युपगच्छति प्राप्नोतीति तथा पुष्पफलसमेत इत्यर्थः । मनुष्याणामित्युपलक्षणम् प्राणिमात्रस्येत्यर्थः । धर्मसार: धर्म एवान्तस्सारो यस्य स तथोक्तः ॥ १४ ॥ १५ ॥ यदेवमतः, त इति ये रामोपघातमसहमानाः ते वयं सपत्न्यः सपत्नीकाः । येन
For Private And Personal Use Only