________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पादयामास । सुहृज्जने विषये यथाईसम्मानवचःप्रचोदितः। आहिताग्न्यादित्वानिष्ठायाः परनिपातः । तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः 2॥४३॥ द्विज इति । द्विजः ब्राह्मणः । सुहृत् द्विजवाभावेपि सुहृत् । द्विजत्वसुहत्त्वाभावेपि भृत्यजनः, तथात्वाभावेपि दरिदभिक्षाचरणः । भिक्षां चरतीति भिक्षाचरणः । “कृत्यल्युटो बहुलम्" इति कर्तरिल्युट् । कर्मधारयसमासः । तत्र तेषु मध्ये । कश्चिदपि यथाईसम्माननदान। द्विजः सुहृद्धृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत् । न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदान सम्भ्रमैः ॥ ४५ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु । जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १॥ ततो गृहीते दुष्प्रेक्षे त्वशो भेतां तदायुधे । मालादामभिराबद्धे सीतया समलंकृते ॥२॥ ततः प्रासादहाणि विमानशिखराणि च । अधि रुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥३॥ सम्भ्रमैः सम्भ्रमस्त्वरा । "आरम्भः सम्भ्रमस्त्वरा" इत्यमरः । न तर्पितो न बभूव । त्वरया क्रियमाणैरपि सम्मानदानः सर्वेपि तर्पिता बभूवु रित्यर्थः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥ पूर्व पित्रानुज्ञातोऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुनः रामो दशरथसमीपं गच्छति-दत्त्वेत्यादि ॥१॥ तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खड्गादीनामप्युपलक्षणमेतत् । मालादामभिः मालानिचयरित्यर्थः । अलंकृते चन्दनादिभिरलंकृते ॥२॥ तत इति । प्रासादहाणि प्रासादो देवतानां भूभुजां चावासः, हाणि धनिना मन्दिराणि । “हादिनिनां वासः प्रासादो देवभूभुजाम्" इत्यमरः । विमानशिखराणि विमानं सप्तभूमि । प्रचोदितः तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः ॥ ४४॥ द्विज इति । दरिद्रभिक्षाचरणः दरिद्रस्सन भिक्षाचरणः॥ ४५ ॥ इति श्रीमहेश्वरतीर्थविरचितायो| श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ ३२ ॥ १॥ तत इति । तदायुधे तयोरसाधारणायुधे, धनुषी इत्यर्थः । खद्रादीनामप्यु पलक्षणमेतत । मालादामभिः मालानिचयैः । समलंकृते चन्दनादिभिः॥२॥ तत इति । प्रासादहाणि प्रासादाः देवानां भभुजां चावासाः, हाणि धनिना
For Private And Personal Use Only