________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥१२१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दित्यत्राभिविधिवाचकस्याङः सरयूतटादित्यनेन सम्बन्धः । आनयामास नाययामासेत्यर्थः॥ ३९ ॥ उवाचेति । परिहासो ह्ययं मम अयं दण्डक्षेपणप्रचोदना । परिहासः विनोदार्थ इत्यर्थः ॥ ४० ॥ परिहासमेव विवृणोति - इदमिति । तेजः बलम् । दुरत्ययं निरतिशयमित्यर्थः। यद्वा जिज्ञासितुं ज्ञातुमित्यर्थः । यद्वा उवाच च ततो रामः तं गार्ग्यमभिसान्त्वयन् । मन्युर्न खलु कर्त्तव्यः परिहासो ह्ययं मम ॥ ४० ॥ इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया । इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ॥ ४१॥ ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात् । भवत्सु सम्यक् प्रतिपादनेन तन्मया जिंतं प्रीतियशस्करं भवेत् ॥ ४२ ॥ ततः सभार्यत्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः । यशोबलप्रीति सुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ ४३ ॥ स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् । नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवचः प्रचोदितः ॥ ४४ ॥
जिज्ञासितुं मीमांसितुम् । “मानेर्जिज्ञासायाम् " इति मीमांसार्थे जिज्ञासाशब्दप्रयोगात् । इममर्थ दण्डप्रक्षेपणरूपम् । अपरं किञ्चिव्यवस्यति अभि टपतिचेत् तदृणीष्व ॥ ४१ ॥ इदं च पूर्ववन्न परिहासरूपमित्याह ब्रवीमीति । यन्त्रणा निरोध इत्यर्थः। मम यद्यद्धनमस्ति तत्सर्वं विप्रकारणात् विप्रार्थमेव आर्जितम्, भवत्सु भवादृशेषु विप्रेषु । सम्यक् करणत्रयपूर्वकम् प्रदानेन मम प्रीतियशस्करं भवेत् ॥ ४२ ॥ तत इति । मोदित इत्यनेन गोभ्योन्यन्नापेक्षित वानित्यवगम्यते । उपबृंहणीः वर्द्धनीः । तदा गमनकाले । महात्मनः रामस्य ॥ ४३ ॥ स इति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । नियोजयामास प्रति गाः त्रिजटाय त्रिजटस्य ॥ ३९ ॥ उवाचेति । परिहासोप्ययं दण्डपरिक्षेपणवचनरूपोऽयं विनोदार्थ इत्यर्थः ॥ ४० ॥ इदमिति । इदं तेजः शक्तिः अतिवृद्धस्यापि | सतस्तव जिज्ञासितुं ज्ञातुमित्यर्थः । इममर्थ दण्डप्रक्षेपणरूपार्थमुद्दिश्य प्रचोदितोस, अपरं गोभ्योऽन्यत् किमपि वरितुं व्यवस्यति चेत वृणीष्व ॥ ४१ ॥ इदं वचनं नोपचारमात्रमित्याह ब्रवीमीति । यन्त्रणा इतोप्यधिकवरस्य वरणे सङ्कोचः, ते तव । नास्ति मास्तु । कुतः ? मम यद्यद्धनं तद्विप्रकारणात् विप्रप्रयोजन सम्पादनार्थम् कथं तथात्वमत आह-भवत्सु भवादृशेषु सम्यक् प्रतिपादनेन परिपूर्णप्रदानेन हेतुना मया आर्जितं धनं मे मीतियशस्करं प्रीतिकरं यशस्करं च भवेत् ॥४२॥ तत ॥१२२॥ इति । यशोवलप्रीतिसुखोपबृंहणीः यशःप्रभृतीनां विवर्द्धनीः । तदाशिषः तस्य रामस्य आशिषः ॥४३॥ स चेति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । यथार्हसम्मानवचः
1
स० [समार्थः भार्यासहितः । यद्वा आशिषः प्रत्यवदत् । ततः गेहगमनानन्तरं समार्थो मुदितः हृष्टोऽभूदित्यन्वयः । अतः समार्थ इति नानुपपन्नम् ॥ ४३ ॥
For Private And Personal Use Only
टी.अ.कां.
स० ३२