________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
जीर्णत्वादाच्छादयितुमशक्याम । रामदर्शनार्थमाच्छादनयत्नः। यत्र यन्मार्गाश्रितवीथ्याम् ॥ ३२ ॥ भृग्वगिरेति । भगिनत्यत्र अकारान्तत्वमार्यम् ॥३३॥ स इत्यादि । प्रत्यशास्त्र कटाक्षयेत्यर्थः॥३४॥ तमिति । परिहाससमन्वितं लीलास्मितसमन्वितम्, बहुकुटुम्बिनो दरिद्रस्य अस्य कियती धनाशेति जिज्ञासया सस्मित इत्यर्थः॥३५॥ गवामिति । अनेकगोसहस्राणां मध्ये एकमपि सहस्रं न विश्राणितमित्यर्थः । यद्वा असङ्खचातानां गवां |
भृग्वङ्गिरसमं दीप्त्या त्रिजट जनसंसदि । आ पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत् ॥ ३३ ॥ स राजपुत्र मासाद्य त्रिजटो वाक्यमब्रवीत् । निर्द्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः । उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३४ ॥ तमुवाच ततो रामः परिहाससमन्वितम् ॥ ३५॥ गवां सहस्रमप्येक न तु विश्राणितं मया । परिक्षिपसि दण्डेन यावत्तावदवास्यसि ॥ ३६ ॥ स शार्टी त्वरितः कट्यां सम्भ्रान्तः परिवेष्टय ताम् । आविष्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ ३७॥ स तीर्खा सरयूपारं दण्डस्तस्य कराच्युतः । गोबजे बहुसाहस्र पपातो
क्षणसन्निधौ॥३८॥ तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात् । आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति॥३९॥ मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । तुभ्यमितिशेषः। अपितु दण्डेन यावत्परिक्षिपसि गवाकीर्णे यावन्तं देशं परिक्षिपसि तावदवा प्स्यासि, तावद्देशस्थं गोजातमवाप्स्यसीत्यर्थः । एकं गोसहस्रमात्रं न दत्तम् अन्यत् सर्व दत्तमिति नार्थः। 'बहुसाहने' इत्यादि वक्ष्यमाणेन विरोधात अपिशब्दास्वारस्याच ॥ ३६॥ स शाटीमिति । कटयां परिवेष्टनं बलोत्तम्भनाय। आविध्य भ्रामयित्वा । सर्वप्राणेन सर्वशत्या। “शक्तिः पराकमः प्राणः" इत्यमरः ॥ ३७॥ स इति । उक्षणसन्निधौ उक्षसन्निधौ “वष्टिभागुरिः" इत्यादिरीत्या अकारान्तत्वम् ॥ ३८॥ तमिति । आ तस्मा रामनिवेशनं यत्र यस्मिन् पथि रामनिवेशनं प्राप्यते तादृशं पन्धानमास्थाय प्रातिष्ठत प्रस्थितवान् ॥ ३२॥ भूग्विति । दीप्त्या ब्रह्मवर्चसेन ॥ ३३ ॥ निर्द्धन इति । प्रत्यवेक्षस्व मयि कृपां कुरु ॥ ३४ ॥ तमिति । परिहाससमन्वितं लीलास्मितान्वितम् ॥ ३५ ॥ गवामिति । गयामसङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । अतो दण्डेन यावत्परिक्षिपसि गवाकीर्ण यावन्तं देशं परिक्षिपसि परिगृहासि तावत् तावडेशस्थंगोजातमवाप्स्यसीत्यर्थः । ब्राह्मणाना मोग्रहण चापल्यप्रदर्शनार्थमेवरीत्या भगवतोक्तमिति भावः॥३६॥ स इति। तो शाटीं सम्भ्रान्तःसन्तुष्टः सन्। आविध्यभ्रामायित्वा । वेगित: त्वरितः। सर्वप्राणेन सर्वशक्त्या। चिक्षेप मुक्तवान ॥३७॥ स इति । सः दण्डः । सरयूपारं सरयूतीरम् । तीर्जा प्राप्य उक्षाणसन्निधौ वृषसन्निधौ ॥३८॥ तमिति । आ तस्मादित्यभिविधावाकारः, ताः
For Private And Personal Use Only