________________
Acharya Shri Kalassagarsur Gyarmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
रत्रालङ्कारपूर्णानि । अशीतियानानीत्युक्त्या दण्डमाणवाश्चाशीतिसङ्ख्याका इतिगम्यते ।रत्रवाहानुदानिति वा । शालिवाइसहवं शालिधान्यवाहकबली
वर्दसहस्रम् । भद्रकान् । अल्पार्थे कन्प्रत्ययः । कर्षणयोग्याननडुह इत्यर्थः । धान्यविशेषानित्यपरे । व्यञनार्थ क्षीरदधिघृतार्थम् । उपाकुरु स्वेत्यर्थः ।। 11॥१८-२०॥ मेखलीनामिति । मेखला मौत्री, तद्वतां ब्रह्मचारिणामित्यर्थः । आर्षों दीर्घः । सहस्रं गोसहस्रम् प्रकृतत्वात् तासाम् ॥२३॥ ममाम्बेत्यन्वयः।
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा । व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥२०॥ मेखलीनां महासङ्घः कौसल्यां समुपस्थितः। तेषां सहस्रं सामित्रे प्रत्येकं सम्प्रदापय ॥२१॥ अम्बा यथा च सा नन्देत् कौसल्या मम दक्षिणाम् । तथा द्विजातीस्तान सर्वाल्लँक्ष्मणाय सर्वशः॥२२॥ ततः स पुरुषव्याघ्रस्तद्धनलक्ष्मणःस्वयम् । यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ २३ ॥ अथाब्रवीद्वाष्पकलांस्तिष्ठतश्चोपजीविनः । सम्प्रदाय बहुद्रव्य मेकैकस्योपजीवनम् ॥२४॥ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम । अशून्यं कार्यमेकैकं यावदागमनं मम ॥२५॥ दक्षिणां पूर्वोक्तदानाङ्गभूताम् । सर्वशः बघान्यादिसर्वप्रकारैः ॥२२॥ तत इति । यथोक्तं रामोक्तमनतिकम्य अददात् धनदो यथेति । धनदस्य दातत्वं 'धनदेन समस्त्यागे' इति वालरामायण एवोक्तम् । ब्राह्मणेन्द्राणामिति चतुर्थ्यर्थे षष्ठी ॥ २३ ॥ अथेति । बाष्पं कलन्ति मुञ्चतीति बाष्पकलाः तान् उपजीविनं प्रति एकैकस्योपजीविनो बहुद्रव्यं सम्प्रदायात्रवीत् ॥२॥अशून्य कार्य, यथापूर्व भवद्भिरूपविश्य रक्षणीयमित्यर्थः । एकैकं पृथक तपस्वित्वेन महतां सम्भताः । रत्नपूर्णानि धनपूर्णानि अशीतियानानि अशीपुष्टान्॥१९॥ शालिवाहेति । शालीन वहन्तीति शालिवाहाः बलीवः भद्रकाः कर्षण प्रवीणाः महर्षभाः। व्यञ्जनार्थ दधिपूताद्यर्थम् । उपाकरू ददस्वेत्यर्थः ॥२०॥ मेखलीनामिति । मेखला मेखलिनः ब्रह्मचर्यवतिनः। अर्श आदित्वादन् । समवस्थितः। विवाहार्थमिति शेषः । तेषां सहस्रम् गोसहस्र विवक्षितम् । गवामेष प्रकृतत्वात । अम्बा कौसल्या,नः अस्माकं दक्षिणी ब्रह्मचारिभ्यो दत्तं यथा नन्देत तथार्चयेति । योजना । प्रथमान्तपाठे दक्षिणा समर्था अम्बा कौसल्यान अस्माकं यथा स्थाश्रितब्रह्माचारिवर्गस्य विवाहाथ भिक्षाप्रदानेन नन्देव तथा दापयेतिवार्थः ॥२१॥२२॥ तत इति । तद्धनम् यथोक्तम्, यथोक्तविभागमित्यर्थः ॥२३॥ अथेति श्लोकद्वयमेकं वाक्यम् । बाप्पगलान बाष्पगगदान । एकेकस्य उपजीवनं जीवनसाधनम् बहुद्रव्यम् एकैकस्य सम्प्रदाय दत्वा ॥ २४ ॥ लक्ष्मणस्य वेझ्म यदिदं मम गृहं च एकैकं प्रत्येकं यावन्ममागमनम् अशून्य कार्यमित्युपजीविनोऽब्रवीदिति योजना।
For Private And Personal Use Only