________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
व्यञ्जिता ॥ २६ ॥ यं चेत्यादि । जनकस्य राज्ञो यज्ञे महात्मा वरुणः स्वयमेव मह्यं यद्धनुरादिकं ददौ । आचार्यसद्मनि आचार्यस्य गृहे । पूजार्थं निहितं तदेतत्सर्वमायुधमादाय सः आपृष्टसुहृज्जनस्त्वं क्षिप्रमाव्रजेत्यन्वयः । अत्र धनुरादिषु सर्वत्र द्विवचनादाययोर्ददावितिसिद्धम् ! बालकाण्डेऽनुक्तोप्ययं वृत्ता न्तोऽनुवादात्सिद्धः, यथा सुन्दरकाण्डेऽभिहितं मणिबन्धनम् "मणिरत्नमिदं दत्तं वेदेद्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते ॥” इति । ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् । जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २७ ॥ अभेद्ये कवचे दिव्ये तूणी चाक्षयसायको । आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥२८॥ सत्कृत्य निहितं सर्वमेतदाचार्य सद्मनि । स त्वमायुधमादाय क्षिप्रमात्र लक्ष्मण ॥ २९ ॥ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः । इक्ष्वाकुगुरु मागम्य जग्राहायुधमुत्तमम् ॥ ३० ॥ तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् । रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥३१॥ तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् । काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण ॥३२॥ अहं प्रदातुमिच्छामि यदिदं मामकं धनम् । ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ ३३ ॥ वसन्तीह भक्त्या गुरुषु द्विजसत्तमाः । तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ ३४ ॥
यथा
चायोध्याकाण्डेऽनभिहितोपि वाय सवृत्तान्तः सुन्दरकाण्डेऽनूद्यते स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः। त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥” इति । आचार्यो वसिष्ठः । इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात्, नहींक्ष्वाकु कुलगुरुर्वसिष्ठाद्न्योस्ति ॥ २७-३१ ॥ तमिति । प्रीत्योवाचेत्य अन्वयः ॥ ३२ ॥ कांक्षितत्वमेवाह - अहमित्यादिना ॥ ३३ ॥ वसन्तीति । यच्छन्दोर्थसिद्धः । इह नगरे गुरुभक्तया ये दृढं वसन्ति नित्यं गुरुशुश्रूषणं कुर्व स्त्विति । ब्रज अनुव्रज । आपृच्छस्व अनुजानीहि ॥ २६ ॥ ये चेति । वरुणः जनकस्य महायज्ञे धनुरादिकमावयोर्ददौ सत्कृत्य निहितं निक्षिप्तम् आचार्य || सद्मनि वसिष्ठसद्मनि । ननु जनकथागे धनुरादिप्रदानस्याश्रवणात् कथमत्र सिद्धवदनुवादः क्रियते ? सत्यमेतत्; भगवतो वाल्मीकेरियं शैली - प्रस्तुतार्थ प्रतिपादनपारवश्यात् यत्र वक्तव्यमर्थं तत्रानुक्त्वा उत्तरव केनचिद्याजेन सिद्धवदनुवदतीति । यथा बालकाण्डेऽनभिहितं मणिबन्धनं “ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे " इति सुन्दरकाण्डेऽभिहितवान । अयोध्याकाण्डे वक्तव्यं काकासुरवृत्तान्तं " स पित्रा परित्यक्तः सुरैश्च समहर्षिभिः " इत्यादिना सुन्दरकाण्डे
For Private And Personal Use Only