________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. (१११॥
न्तीत्यर्थः । तेषामपि मे सर्वेषाम् उपजीविनां च । भूयः अतिशयेन नित्यदेयादधिकतया दातुमिच्छामि, तानानयेतिशेषः ॥२४॥ वसिष्टपुत्राटी.अ.का. मिति । वसिष्ठपुत्रम् आर्य द्विजानां प्रवरं सुयज्ञम् । अन्यानपि शिष्टानानय । सुयज्ञं तांश्चाभ्याभिप्रयास्यामीत्यर्थः ॥ ३५ ॥ इति श्रीगोविन्दराज स. ३२ विरचिते श्रीरामायणभूपणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ एवं निश्चितसीतालक्ष्मणानुयात्रस्य रामस्य
वसिष्टपुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजानाम् ।अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजा तीन् ॥ ३५॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंशः सर्गः ॥३॥ ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् । गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १॥ तं विप्रमभ्यगार स्थं वन्दित्वा लक्ष्मणोऽब्रवीत् । सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥२॥ ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह । जुष्टं तत्प्राविशल्लक्षम्या रम्यं रामनिवेशनम् ॥३॥ तमागतं वेदविदं प्राञ्जलिः सीतया सह । सुयज्ञमभिचक्राम राघवोऽग्निमिवाचितम् ॥॥ जातरूपमयमुख्यैरङ्गन्दैः कुण्डलैः शुभैः । सहेमसूत्रैर्मणिभिः
केयूरैवलयैरपि ॥५॥ अन्यैश्च रत्नैर्बहुभिःकाकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥६॥ यात्रादानं प्रस्तूयते द्वात्रिंशे-तत इत्यादि। आज्ञाय अङ्गीकृत्य । शुभतरं ब्राह्मणोपकारत्वात् । प्रियम् आत्मनोनुगमनाङ्गीकारफलत्वात् ॥2॥ तमिति । अग्यगारस्थम् अग्निहोत्रशालास्थम् । दुष्करकारिणः दुष्करकर्मकारिणः । वेश्म अभ्यागच्छ कृत्यं च पश्येत्यर्थः॥२॥ तत इति । सन्ध्योपासनं माध्याह्निकम् अथवा सन्ध्यानियताग्निहोत्रम् । अन्यगारस्थमित्युक्तेः ॥ ३॥ तमिति । अर्चितं हुतम् ॥ ४॥ जातरूपमयेरित्यादि । जातरूपमयैः उक्तवान् ॥ २७-३४ ॥ वसिष्ठपुत्रं सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं तत्पुत्रस्य तत्पुत्रः' इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ तत इति ॥ १॥ तनिति । अग्न्यगारम् अग्निहोत्रशाला वेश्म रामस्याभ्यागच्छ । दुष्करकारिणः प्राप्तराज्यत्यागपूर्वकवनगमनरूपदुष्करकारिणः ॥२॥ तत इति । सन्ध्या माध्याहिकीम ॥ ३ ॥ तमिति । अभिचक्राम प्रत्युत्थानादिकं कृतवान् ॥ ४॥ जातरूपेति । अङ्गदमूर्खाकारं पत्रलताचित्रितं बाहुमूलधार्य भूषणम् । केयूरम् तस्याधोभागे धार्य वलयाकारं भूषणम् । वलयः कटकैः हेमसौः मणिभिः स्वर्णसूत्रस्यूतैः मुक्तादिमणिभिरित्यर्थः॥ ५॥ सुयज्ञमिति । सीताप्रचोदित इति ।
११८
For Private And Personal Use Only