SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir वा.रा.भू प्रतिषेधनिमित्तमाह-मयेति । कौसल्यादिभरणार्थमेव वं वारितोसि, पूर्वानुज्ञा तु तात्कालिकपरिहारायेतिभावः ॥ ११ ॥राजैव भरिष्यतीत्यत्राइ- अभिवतीति । कामपाशपर्यस्तः पराभिलापरुपपाशेन संयत इत्यर्थः ॥ १२ ॥ तर्हि भरतो भरिष्यतीत्यपेक्षायां सोपि कैकेयीपरवशो न टी.अ.कां. ॥११॥ मयाद्य सह सौमित्रे त्वयि गच्छति तदनम् । को भरिप्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११॥ अभि वर्षति कामैर्यः पर्जन्यः पृथिवीमिव । स कामपाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता । दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् । भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥ तामार्या स्वयमेवेह राजानु ग्रहणेन वा । सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥ १५॥ एवं मम च ते भक्तिभविष्यति सुदर्शिता । धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६॥ एवं कुरुष्व सौमित्र मत्कृते रघुनन्दन । अस्माभिर्विग्रहीणाया मातुनों न भवेत्सुखम्॥ १७॥ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा । प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् १८ भरिष्यतीत्याशयेनाह-सा हीत्यादि ॥ १३॥ १४ ॥ मया वा कथं भर्तुं शक्यमित्यत आह-तामिति । राजानुग्रहणेन राजानुमत्या, तदभावे स्वयमेव वा भरेत्यर्थः । अस्योत्तरं मा वदेत्याह उक्तमर्थमिमं चरेति ॥ १५॥ त्वत्कैकर्य्यपरस्य मे किमनेनेत्यत आह-एवमिति । एवम् एवं च सतीत्यर्थः । मम मयीत्यर्थः । गुरुपूजा मातृशुश्रूषणम् ॥ १६॥ एवमिति । अस्माभिः आवाभ्यां सीतया चेत्यर्थः । नः नौ । “अस्मदो। योश्च" इति द्विवचनस्य बहुवचनम् ॥ १७॥ एवमिति । वाक्यज्ञो वाक्यकोविदामिति “उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा” इत्युक्तवकृत्व ॥११६॥ भरतो रक्षिप्यतीत्यत आह-न स्मरिष्यतीति । कैकेय्यां पर्यवस्थितः तन्नियोगेन सपत्नीतिरस्कारविषये पर्यवस्थितः प्रतिष्ठितः ॥ १४-१८॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy