SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsen Gyarmandie वृणे । त्वत्कर्यविनाकृतं मोक्षमपि न वाञ्छामीत्यर्थः । अमरत्वम् “जरामरणमोक्षाय" इत्युक्तं कैवल्याख्यं मोक्षमपि न वृणे । लोकानामैश्वर्य त्रिलोकाधिपतित्वम्, ब्रह्मत्वमितियावत् । मोक्षमप्यकामयमानोऽहं कथं कैवल्यादिकं कामयेयेतिभावः । यद्वा अवरोहकमेण त्रैलोक्येश्वर्यादिकमपि न कामय इति । अतो न पतत्प्रकर्षदोपः । देवलोकगमनं देवत्वमिन्द्रत्वं वा न कामय इति वाक्यार्थस्तुच्छः ॥५॥६॥ अनुज्ञात इति । अनुज्ञातश्च एवं अवाणः सौमित्रिर्वनवासाय निश्चितः । रामेण बहुभिः सान्त्वनिषिद्धः पुनरब्रवीत् ॥ ६॥ अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् । किमिदानी पुनरिदं क्रियते मे निवारणम् ॥ ७॥ यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः । एतदिच्छामि विज्ञातुं संशयोऽयं ममानध ॥ ८॥ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥९॥ निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः । प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ १०॥ अनुज्ञात एव । “ उपक्लुप्तं च यत्किञ्चिदभिषेकार्थमद्य मे । सर्व विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥” इति वचनात् । अन्यत्र च "तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकीः क्रियाः॥" इति । अपरन च "भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशे पतः । त्वया भरतशत्रुनो प्राणैः प्रियतरौ मम ॥” इति । भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्वानुज्ञा सिद्धा ॥७॥ यदर्थमिति । अनुज्ञातत्वेपि प्रतिषेधात किमद्य मयाऽपरादमिति संशयः ॥ ८॥ तत इति । स्थितम् अग्रतः स्थितम् । प्राग्गामिनं प्रागेव गन्तुमुद्युक्तम् । वीरं प्राग्गमनोचितवीर्यवन्तम् । याचमानं गमनाज्ञा याचमानम् । कृताञ्जलिं यामाध्यनकानलियुक्तम् ॥ ९॥ स्निग्ध इत्यादिपिशेपणानि स्वकार्यकरणाईतानुगुणानि ॥१०॥ मनप्राप्ती सीताशरणागतिरेवामोघोपाय इति मत्वा मन्त्रार्थनामपि पुरुषकारत्वेनाङ्गीकार्वति सीतां प्रार्थयन् राघवं प्रत्युवाचेत्यर्थः ॥ १-७ ॥ यदर्थमिति । एलदिन्छामि गलत प्रतिषेधप्रयोजनमित्यर्थः । मंशयः बाल्यान्मभूति सुम्निग्धं छायावत्परतन्त्रम् मां कं हेतुमुद्दिश्य आर्या निषेधतीति संशयः ।। ८-१३ ॥ स०-इतरेषामदपः, मम तु विशेषः विमः । स्निग्धः स्नेहयुकः ॥१०॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy