________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ११५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वमागतः कौसल्या गृहाद्रामेण सह पूर्वमेवागतः । शोकम् अर्द्धशरीरभूतायाः सीताया अपि वनानुगमनं कृच्छ्रादप्यङ्गीकृतम् मम कथं तत्सम्भवि ष्यतीति विचारजं शोकम् ॥ स्वानुवृत्तिरूपप्रयोजनाय सीतापुरुषकारेण रामे शरणागतिं विधत्ते स भ्रातुरिति । सः रामानुवृत्तिरूपप्रयोजनाय उपा यान्तरशून्यः । भ्रातुरित्यवर्जनीयसम्बन्धकथनाच्छरण्यत्वमुक्तम् । चरणौ निपीडयेति शरणागत्युक्तिः । गाढमित्यश्लथत्वोत्त्या महाविश्वास उक्तः । सभ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशा राघवं च महात्रतम् ॥ २ ॥ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि । पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ ५ ॥
रघुनन्दनः लक्ष्मणः । अतियशाः आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनवान् । आदौ सीतां पुरुषकारत्वेन परिगृह्मोवाच पश्चात्तत्पुरुषकारेण महात्रतम् "न त्यजेयं कथंचन । एतद्रतं मम" इत्युक्त गुरुतरव्रतयुक्तम् । राघवं रघुराक्षससंवादादिप्रसिद्धकुलधर्मशरणागतरक्षणं च । उवाच शरणागतेः सर्वफलप्रदत्वेन स्वाभिमतफलं विज्ञापयामास । निपीडयेत्यन्तेन द्वयस्य पूर्वखण्डोक्तशरणागतिरनूदिता । राघवमुवाचेत्यनेनोत्तरखण्डोक्त फलप्रार्थनोक्ता । सीतामुवाचे त्युभयत्र पुरुषकारपरिग्रहोक्तिः ॥ १ ॥ २ ॥ कैङ्कर्यप्रार्थनमेवाह-यदीति । यदीत्यनेन रामस्य वनगमनं स्वानभिमतमित्युक्तम् । कैर्यसाधनमाह धनुर्द्धर इति । धनुर्द्धरत्वे हेतुमाह-मृगेति । अहं त्वा अनु पश्चादग्रे च वनं गमिष्यामि तवाग्रे पश्चाद्वा यत्र दुष्टमृगशङ्का तत्र सावधानो गमिष्यामीत्यर्थः । अतएव 'मया समेतः' इति वक्ष्यति ॥३॥ मया धनुर्द्धरेण मया । त्वदीयं धनुर्वहतेतिवार्थः । बहूनीत्यनेन सर्वदेशसर्वकाल सर्वावस्थोचितसर्वविधकैर्व्य प्रार्थनं कृतम् ॥ ४ ॥ अनन्योपायत्ववदनन्यप्रयोजनत्वमाह-नेति । देवलोकाक्रमणम् " देवानां पूरयोध्या" इत्युक्तपरमपदप्राप्तिं त्वया विना न पूर्वमागतः कौसल्यागृहात् रामेण सह सीतासंवादप्रवृत्तेः पूर्वमेवागतो लक्ष्मणः शोकम् अर्द्धशरीरभृतायास्सीताया अपि वनानुगमनं कृच्छ्राद्ङ्गीकृतम्, मम तु कथं सम्भविष्यतीति विरहजं शोकं सोढुमशक्नुवन् । वोढुमशक्नुवन्निति पाठभेदः । भ्रातुश्चरणौ गाढं निपीड्य प्रणम्य सीतां, प्रार्थयन्निति शेषः । स्वाभि ॥ ११५ ॥ स०-अतियशाम्-अतिशक्तिज्ञानसुखरूपिणीम् । “ यं ज्ञानं समुदाहृतम् " शं सुखानि च " इति नानार्थव्वनिपदमञ्जरी । अतियशा इति पाठे - लक्ष्मणविशेषणम् । सीतामुवाचेत्यनेन वासुदेव प्रसाधनं मुख्यतो रमेति प्रतिपूर्ववचनं युक्तमिति सूचयति ॥ २ ॥
For Private And Personal Use Only
टी.अ.कां. स० ३१