________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ध्यवसायम् । अतिक्रान्ता प्रकर्षेण प्राप्ता । “प्रकर्षे लडने प्यति" इत्यमरः ॥४१॥ आरभस्वेति । वनवासक्षमाः वनवासहिताः। “क्षमं शक्ते हिते विषु" इत्यमरः । क्रियाः दानादिक्रियाः ॥ ४२ ॥ ब्राह्मणेभ्य इति । आशंसमानेभ्यः अर्थयमानेभ्यः ॥ ४३ ॥ भूषणानीति । क्रीडार्थाश्चाप्युप
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वगोंऽपि मम रोचते ॥ ४२ ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहिचाशंसमानेभ्यःसन्त्वरस्व चमा चिरम्॥४३॥ भूषणानिमहार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥४४॥ शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥४५॥ अनुकूलं तुसा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे॥४६॥ ततः प्रहृष्टा प्रतिपूर्णमानसायशस्विनी भर्तुरवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥४७॥ इत्या श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंशः सर्गः ॥३०॥
एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः। बाष्पपर्याकुलमुखः शोकं सोडुमशक्नुवन् ॥ १॥ स्कराः जातरूपमयकृत्रिमपुत्रिकालीलापाकभाजनादिविचित्रोपकरणानि । ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति सम्बन्धः॥४४॥४५॥अनु कूलमिति । अनुकूलं सम्मतम् ॥ १६ ॥ तत इति । प्रतिपूर्णमानसा निश्चिन्तेत्यर्थः । अवेक्ष्य आलोच्य । धर्मभृतां धर्मभृद्भ्यः। मनस्विनी निश्चितमनस्का ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिंशः सर्गः ॥३०॥ एवं रामेण सीतागमनेऽङ्गीकृते लक्ष्मणस्यानुगमनप्रार्थनमुपक्षिपति-एवमित्यादिना। श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीतारामयोस्संवादम्। आरभस्वेति । वनवासक्षमाः वनवासे हिताः क्रियाः दानादिक्रियाः इदानीमेतद्वद्धिनिश्चये सतीत्यर्थः ॥ ४२ ॥ ४३ ॥ भूषणानीति । कीडार्थाश्चाप्युपस्कराः जातरूपमयकृत्रिमपुत्रिका पस्करणादीनि ॥ ४४ ॥ शयनीयानीति । ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति योजना ॥ ४५ ॥ अनुकूलमिति । आत्मनः स्वस्याः आगमनं भर्तुः अनुकूलम् इष्टम् ॥ ४६ ॥ तत इति । धर्मभृतां धर्मभृद्भवः दातुं प्रचक्रम इत्यन्वयः ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिंशःसर्गः ॥ ३० ॥ एवमित्यादि श्लोकद्वयमेकं वाक्यम् । एवम् उक्तप्रकारम् सीतारानसंवादं श्रुत्वा
For Private And Personal Use Only