________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
टी.अ.
मित्यनेन मूर्छाभावः सूच्यते । परिविश्वासयन् । सम्यग्विश्वासयन् ॥२६॥ नेति । तव दुःखेन हेतुना प्राप्यं स्वर्गमपि न रोचये । त्वयि दुःखितायां स्वर्गमपि नेच्छामीत्यर्थः । स्वयम्भोः नारायणस्य नतु चतुर्मुखस्य । तस्य मधुकैटभादिभ्योभयसम्भवात् । आर्षों डुप्रत्ययः। सर्वतः सर्वजन्तुभ्यः ॥२७॥ तवेति । तव विरहदुःखासहिष्णुरपि निर्भयोपि शक्तिमानपि तवान्तराभिप्रायानभिज्ञानादेतावत्पर्यन्तं त्वां वनं नेतुं नेच्छामीति भावः ॥ २८॥
न देवि तव दुःखेन स्वर्गमप्यभिरोचये । न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ॥ २७ ॥ तव सर्व मभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥ यत्सृष्टासि मया सार्द्ध वन वासाय मैथिलि । न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ २९ ॥ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तेऽद्य यथा मूर्य सुवर्चला ॥ ३०॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तन्नयति मां पितुःसत्योपबृंहितम् ॥३१॥ यदिति । सृष्टा देवेनेतिशेषः । आत्मवता शीलवता अतिकृच्छावस्थायामप्यक्षुभितमनस्केन वा । यच्छब्दयोगात्तदिति पूरणीयम् ॥ २९ ॥ इदं पत्न्या सह वनगमनं रागप्राप्तं न भवति अपितु शिष्टाचारसिद्धमित्याह-धर्म इति । धर्मः वानप्रस्थधर्मसद्भिः सपत्नीकै राजर्षिभिः। यथा सूर्य सुवर्चलेति भिन्न लिङ्गयोरप्यौपम्यमार्षम् । यथा सूर्य सुवर्चला देवी तद्वन्मामनुवर्तस्वेति वार्थः ॥३०॥ न खल्लिति । सत्योपबृंहितं पितुर्वचनं मां वनं नयति खलु तत् । परिविश्वासयन समाश्वासयन, उज्जीवयन्नित्यर्थः। न देवीति । तव नियोगदुःखेन, प्राप्तमपीति शेषः । स्वयम्भोरिव सर्वतः सर्वेषामायुर्भाग्यं च लिखितुं परिमाष्टुं|
च कर्तुः ब्रह्मणो यथा कुतश्चिदपि भयं नास्ति तद्वदित्यर्थः ॥ २७ ॥ तवेति । सर्व समग्रम् । अभिप्रायम् अन्तरम् । अविज्ञाय तत एव हेतोः तवारण्ये वासं न रोचये । जानाङ्गीकृतवानस्मि, इतःप्रागिति शेषः ॥२८॥ यदिति । सृष्टशसि निश्चितासि, इदानीमिति शेषः । आत्मवता अक्षुभितमनस्केन योगिनेत्यर्थः॥२९॥ सर्वात्मना
दयितायास्ते सह यानं धर्मश्चेत्याह-धर्मस्त्विति । धर्मो वानप्रस्थधर्मः, सद्भिः सपत्र के राजर्षिभिः यथा सूर्य सुवर्चला ह्यनुवर्तते तथा मामनुवर्तस्वेति शेषः॥३०॥ मम तु वनगमनं निश्चितमेवेत्याह-न खल्विति । न गच्छेयमिति न खलु, गच्छेय मेव सर्वयेत्यर्थः । कुतः वचन मिति सत्योपहितं वचनं मां वन नयति ॥३१॥ स-स्वयम्भोरिव सर्वतः सार्वभोः प्राणः । आर्यि डुः । सर्वतः सशब्दो रुद्रवाचकः, उपल गया सर्वसुर्वग्रह: रुद्रादिभ्यो ब्रह्मणो यथा भयं नास्ति तथा मम सर्वतोपि भयं नास्त्रीत्यर्थः ॥ २७ ॥
॥१३॥
For Private And Personal Use Only