________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
निरयः नरकोपमः। त्वत्संश्लेषविश्लेषादन्ये न मे सुखदुःखे स्त इतिभावः। इति एवम् । परां विश्वेषासहां प्रीतिम् जानन् पूर्वमपि बहुशाऽनुभवन् मया सह गच्छ।।१८॥अथेति । अथेति प्रश्ने । एवम् उक्तप्रकारेण । अव्ययां वनगमनविषयभीतिरहिताम् । अथैव त्वत्सन्निधावेव । द्विषतां भरतादीनां वशं माविशं
अथ मामेवमव्यग्रा वनं नैव नयिष्यसि । विषमद्यैव पास्यामि माविशं द्विषतां वशम् ॥ १९॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् । उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ २० ॥ इमं हि सहितुं शोकं मुहूर्त मपि नोत्सहे। किंपुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २१॥ इति सा शोकसन्तप्ता विलप्य करुणं बहु । चुक्रोश पतिमायस्ता भृशमालिङ्गय सस्वरम् ॥ २२॥ सा विद्धा बहुभिर्वाक्यैदिग्धैरिव गजाङ्गना। चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥२३॥ तस्याःस्फटिकसङ्काशं वारि सन्तापसम्भवम् । नेत्राभ्यां परिसुस्राव पङ्कजाभ्या मिवोदकम् ॥ २४ ॥ तच्चैवामलचन्द्राभं मुखमायतलोचनम् । पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥२५॥
तां परिष्वज्यबाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २६ ॥ न प्राप्नुयाम् । विरहो वा द्विषन्तः ॥१९॥ पश्चादिति । पश्चादपि त्वद्गमनानन्तरमपि । उज्झितायाः त्यक्तायाः। तदेव त्वत्सन्निधानकाल एव ॥२०॥ विष कृतदुर्मरणाहुखेन मरणं ज्याय इत्याशयाह-इममिति । आदो दशवर्षाणि, मध्ये त्रीणि वर्षाणि, अन्ते एकवर्षे च तुल्यतया भाति विरहिण्या इत्या. वेदयितुं विभज्योक्तिः ॥ २१ ॥ इतीत्यादि । आयस्ता आयासं प्राप्ता, प्रशिथिलगात्रीत्यर्थः। सस्वरं सतारध्वनीत्यर्थः ॥२२॥ सेति । विद्धा ताडिता।
वाक्थैः पूर्व रामोक्तः । दिग्धैः विषलितः बाणैः। चिरसंनियतं वातप्रिसङ्गेन चिरात्सन्निरुद्धम् । अरणिरित्यत्रापि विद्धेत्यनुपञ्जनीयम्॥२३॥ तस्या इति । शास्फटिकसङ्काशमित्यनेन विकजलतावगमात चिरविगलितधारत्वमवगम्यते । उदकं मकरन्दरूपं तद्धपुष्णं निर्मलं च ॥ २४॥ तदिति । अमलसका
शमितिपाठे-अमलतया प्रकाशमानम् । बाष्पेण सन्तापसम्भवेनोष्णेन ।अम्बुजपक्षे ऊष्मणेत्यर्थः । “बाष्प ऊष्मा" इत्यमरः।।२९॥ तामिति । विसंज्ञा सः निरय इत्यर्थः ॥ १८ ॥ १९ ॥ पश्चादपीति । पश्चात् किचित्कालानन्तरम् , तदैव त्वद्विप्रयोगकाल एव ॥ २०॥ २१ ॥ इतीति । आयस्ता आयासं प्राप्ता। सस्वरं सशब्दम् ॥ २२ ॥ सेति । दिग्धैः विषयुक्तैः वाणैः चिरसनियतं चिरसन्निरुद्धम् ॥ २३ ॥ २४ ॥ तचेति । बाप्पेण शोकाग्निरूपोष्मणा ॥ २५ ॥ तामिति ।
For Private And Personal Use Only