________________
www.kabatirth.org
Acharya Shri Kailassagarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
अतस्त्वया गच्छेयमिति योजना ॥७॥ दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मतिं ज्ञात्वा व्यति-स्वयमिति । कौमारों कुमारावस्थायामेव परिणताम् ।। शैलूप इव जायाजीव इव । “शैलालिनस्तु शैलूया जायाजीवा कूशाश्विनः" इत्यमरः । परेभ्यः स्वयं दातुमिच्छसि।।टा मातरं शुभूपस्वेति यदुक्तं तत्र परिहारमाह-यस्येति । यस्थ मातृजनस्य पथ्यं हितम् आत्थ। यस्य चाचे अवरुदयसे मां निवारयसे । तस्य जनस्य त्वमेव वश्यः अनुकूलः । विधेयः
स्वयं तु भार्या कौमारी चिरमध्युषितां सतीम् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ ८॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुद्धयसे । त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ ९॥ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि । तपो वा यदि वाऽरण्यं स्वर्गो वा मे सह त्वया॥१०॥ न च मे भविता तत्र कश्चित् पथि परिश्रमः।
पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ ११॥ प्रेष्यश्च भव । अहन्तु त्वामनुयास्यामीत्यर्थः। यदा यस्य मद्रूपजनस्य पथ्यंचात्य एतावत्पर्यन्तं यस्य चार्थे अवरुदयसे क्लिश्यसि तस्य जनस्यत्वं वश्यो विधेयश्च भव, त्वमेव मद्वचनं शृवित्यर्थः। अथवा यस्य भरतस्य पथ्यमात्थ यस्य चाथै यस्याभिषेकरूपप्रयोजननिमित्ते अवरुदयसे निगृहीतोसि तस्य वश्यः इच्छानुसारी विधेयश्च प्रेष्यश्च भवेति सम्बन्धः॥९॥ स इति । वश्यो विधेयश्च त्वंतपो वा तपश्चरणं वा । अरण्यम् अरण्यवासो वा । स्वर्गो वा स्वर्गगमनं वा । त्वया सह भवत्तितिशेषः ॥१०॥ न चेति । पथि तव पृष्ठतो गच्छन्त्या मे विहारशयनेष्विव विहारः परिक्रमः, उद्यानसञ्चार इतियावत् । मनसा न द्रष्टास्मिन द्रक्ष्याम्येव, अतस्त्वया गच्छेयमिति योजना ॥७॥ दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मति ज्ञात्वा कुद्धचति-स्वयमिति । कौमारी कुमारा वस्थायामेव परिणताम् शैलप इव जायाजीव इव परेभ्यः अन्येभ्यो दातुमिच्छसि । यदा भरताय रामकर्तृकराज्यदानमसहमानाह हे राम ! भार्या मर्नु योग्याम् । कुतः सतीम् अनश्वराम् ।कुतः चिरमध्युषितां पितृपितामहाद्यागतांकौमारी कुमारवयस्येव त्वया प्राप्याम्, यौवराज्यरूपामित्यर्थः । मां राज्यलक्ष्मी शैलप इव वेषधारी सन परेभ्योभरतादिभ्यो दातुमिच्छसि, इदं तव नोचितमिति भावः ॥८॥ 'भरतस्थ समीपे तु नाहं कथ्यः कदाचन ' इति पूर्वमुक्तवतो रामस्योत्तरमाह-यस्येति । यस्य भरतस्य पथ्यं हितम आत्थ, यस्य चार्थे यस्य भरतस्य अभिषेकरूपप्रयोजननिमित्ते अवरुध्यसे निगृहीतोसि, तस्य वश्यः इच्छानुसारी विधेयश्च नियो ज्यश्च भव, नाई तदिष्टानुवर्तिनी, त्वद्विधेया च वसामीत्यर्थः ॥ ९॥ १०॥ न चेति । विहारशयनेष्विव विहारः परिक्रमा, उद्यानसञ्चार इति यावत् । विहार
सत्य-यस्य भरतस्य पथ्यं च तदनुवर्तिनीन | भास्थ सम्प्रत्येव कथितवानसि । यसा चार्थे प्रयोजनविषये । अवरुध्यसे निगृहीतोसि । तस्य भरतस्य मयो रुखः वश्यः आधीनो यस्य सः भववश्यस्त्वं विधेयो नियोज्यो भव । पथ्यं चरामित्यत्र मुमागम इस डीवभावश्चार्षः । एतेन वक्ष्याविषेषशम्दयोः पौनक्य परिसृतं भवति ॥ ९॥ पूर्वमप्रतस्ते गमिष्यामीयुक्तरत्र पुनः पृष्ठतस्तव गछन्त्या इत्युक्तेच कदाचित पुरतः कदाचित पृष्ठतश्च गमनमनुचरस्वभाव इति ज्ञायते । तत्राग्रत इत्युक्तिर्गमनौल्पात् । अब पृष्टत इत्युक्तिर्विहितावादिति वा बोचन | अपरिचिते पथि योषितोऽममनायोग्यत्वात् ॥ ११ ॥
For Private And Personal Use Only