SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie वा.रा.भ. ॥१११॥ बतति खेदे। अयं लोकः तपति दिवाकर इव रामे परं तेजोस्तीति अज्ञानात् यदक्ष्यति वदति तदनृतम् । कुतः ? नास्ति अनुपलभ्यमानत्वात्तादृशं तेजोटी .अ.कां. नास्त्येवेत्यर्थः। यद्वा अयं लोकः यद्वक्ष्यति यद्वदति,रामे परं तेजोस्तीत्यर्थसिद्धं । तत् अज्ञानात्। अतोऽनृतं बत।तपति दिवाकर इव रामे परंतेजो नास्ति। व्यतिरेकदृष्टान्तः। यद्यस्ति दिवाकर इव उपलभ्येत इतिभावः । यद्वा अज्ञानात् रामस्वरूपाज्ञानात् । लोकोऽयं यद्वदति तदनृतम् । किं वदतीत्यत्राइ-।। किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥५॥ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् । सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥६॥ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ । त्वया राघव गच्छेयं यथान्या कुलपसिनी ॥७॥ तेज इति । राम इव तपति दिवाकर परं तेजो नास्तीति यद्वदति तदनृतमिति पूर्वेणान्वयः।। ४ ॥किमिति । किं हि कृत्वा किमकार्यं कृत्वा । विषण्णः "अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्" इत्युक्तावश्यभरणीयविषये विषादप्राप्तिर्न युक्तेतिभावः । ते कालानिसदृशक्रोधस्य तव । यत् यस्मात् । कारणात् मां परित्यक्तुकामोऽसि तादृशं कारणं नास्तीत्यर्थः । यद्वा किं हि कृत्वा किंमनसि कृत्वा, किंविचार्येत्यर्थः । यद्यस्मात् विषादात् भयाच्च मां परित्यक्तकामोऽसि ॥ ५॥६॥न विति । हे राघव ! अन्या कुलपासनी यथा कुलपसिनीव । अहं त्वहते अन्यं मनसापि न द्रष्टास्मिन द्रक्ष्याम्येव । नास्त्येवेत्यर्थः । यद्वा अज्ञानादाक्षेपं कृतवत्यस्मीति भीत्या लोक एवं वदिष्यतीति स्वापराधं परिहरति अनुतमिति । यन्मामनादाय गच्छसीति श्लोकादावध्या हत्य योजनीयः । अयं लोकः तपति दिवाकर इव रामे परं तेजो नास्तीति अज्ञानादविचारादनृतं यद्वक्ष्यति तत् बतेति योजना । एतदहं न सह इति भावः॥४॥ कि हीति । किं कृत्वा किमकार्य कृत्वा । विषण्णोसि “ अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् " इत्युक्तावश्यभरणीयविषये विषादो न युक्त इति भावः । मदनुसरणे कालाग्निसहशक्रोधस्य तव कुतो वा भयमस्ति । यद्यस्मात मां परित्यकुकामोसि तादृशं कारणं नास्तीत्यर्थः॥५॥ घुमत्सेन इति कश्चित् । तस्य सुतं । सत्यवन्नामकम् अनुव्रता सावित्रीमिव तस्य पत्नीमिव मां विद्धि ॥ ६ ॥ न त्विति । हे राम! यथा कुलपसिनी अन्यं पश्यति था अहं त्वदृते अन्य ११॥ स०-सत्यवन्नामानं पति सावित्रीनामिका विवाहासाक नारदेन अस्थायुः स इति बोषितापि यतो मनसा तं सङ्कल्पितवती अतो नाहं तं त्यक्ष्यामीन्युक्त्वा तमेव सत्यव एकवासरानन्तरं बने मृत यमेन नीयमाने पतिमनुगम्प यमासं मोचयित्वा जीवित तं पुगाहुन्या गृहीत्वा स्वाश्रममागतवतीति भारतवनपर्वोक्ता कया शेया ॥ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy